Friday, May 24, 2019

Adishankara -Sanskrit essay

🌺आदिशंकराचार्यः🌺

श्रुतिस्मृतिपुराणानामालयं करुणालयम्।
नमामि भगवत्पादं शंकरं लोकशंकरम्।।

  पुरा बौद्धमतप्रचारः अत्यधिक आसीत्। जनाः कर्माचारविमुखा आसन्। केवलं शून्यवादमेव अनुसरन्ति। तस्मिन् समये शंकर एव शंकररूपेण अवतरितः।धर्मरक्षणार्थं आत्मानं सृजामीति भगवतोक्तं खलु। तदर्थमेव शंकरावतारः प्रकटितः। 

  शंकरावतारः वेदेऽपि प्रतिपादितः। यजुर्वेदे रुद्रानुवाके "नमस्सोमायच...... इत्यारभ्य तस्मिन् मध्ये नमःकपर्दिने च व्युप्तकेशाय च ..... इति " स्तूयते। तत्र कपर्दिन् इत्युक्ते जटाजूटधरः इति अर्थो वर्तते। किन्तु झटिति व्युप्तकेशाय नमः इति आगतः । व्युप्तकेशः इत्युक्ते मुण्डितकेशः अर्थः। मुण्डितकेशः केवलं शंकर एव ।अनेन प्रकारेण वेदे वर्तते। 

 शंकरभगत्पादानां पितरौ आर्याम्बा शिवगुरुरास्ताम्। तौ ईश्वरं उपास्य शंकरं सुतमिव लब्धवन्तौ। शंकरभगवत्पादः वैशाखशुद्धपञ्चम्यां जनितवन्तः। प्राचिनसम्प्रदाये संख्याः अक्षरसंकेतरूपेण प्रोच्यन्ते। "कादि नव , टादि नव, रु पञ्च, याद्यष्टौ" एवं प्रकारेण सूचनाविधानमस्ति। अनेन प्रकारेण आचार्याणां जन्मदिवसमनुसृत्य "शंकर" इति नामकरणं क्रियते । वैशाखशुद्धपञचमी आचार्याणां जन्दिवसः खलु। अर्थात् पञ्चमी तिथिः, प्रथमपक्षः, द्वितीयो मासः। ताः संख्याः' शंकर' इति पदसंकेताः भवन्ति। 'याद्यष्टौ 'इति सूत्रमनुसृत्य' श' इत्युक्ते पञ्च।(य, र, ल , व, श...)'कादि नव' इति सूत्रमनुसृत्य 'क' अक्षरस्य संकेतो भवति प्रथम इति। पुनः 'याद्यष्टौ' इति सूत्रप्रकारेण 'र' इत्युक्ते द्वितीयो भवति। विलोमेन क्रियते चेत् द्वितीयो मासः, प्रथमपक्षः, पञ्चमीतिथिः इति अर्थो वर्तते। अनेन प्रकारेण पक्षमाससंख्यासूचनाविधानेन 'शंकर' इति नामधेयः संभवति। आचार्याणां तेषां पितृभ्यां अनेनप्रकारेणैव नामकरणं कृतम।।

(कञ्चिपरमाचार्यवर्याणां जगद्गुरुबोधाः इति पुस्तके संगृह्य अनूदितं मया।)🙌🙏

            बाला...✍

No comments:

Post a Comment