अस्य प्रबन्धस्य उत्तरत्वेन अधोदृष्टप्रबन्धः श्रीसुब्रह्मण्यवैद्यनाथवर्येण रचितः -
शांकरभाष्ये नारायणादिभगवद्वाचकशब्दानां कोऽर्थ इति सम्यग्विचार्यैव निर्णेतुं शक्यते | उदाहरणतः भवदुदाहृतवाक्यं पश्यामः - //अपि च ईश्वरप्रपदनशीलिनां वैशेष्यं तत्रैवोक्तम् भवति "सर्वात्मानं मां नारायणं प्रतिपद्यते स महात्मा" इति । // इदं वाक्यं 7.19 भाष्ये वर्तते | अत्र प्रपदन/प्रतिपदनशब्दार्थः न 'प्राप्नोति/प्रपत्तिं करोति' इत्यर्थः परन्तु ' अपरोक्षतया जानाति' इत्यर्थः | भाष्यं पश्यतु -
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥ भाष्यम्
बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणाम् अन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः अन्यः अस्ति, अधिको वा । अतः सुदुर्लभः, 'मनुष्याणां सहस्रेषु' (भ. गी. ७ । ३) इति हि उक्तम् ॥ १९ ॥
अत्र 'मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते' इत्यस्ति | अत्र न वासुदेवरूपदेवताविशेषं प्रत्यक्षतः पश्यति' इत्यर्थः किं तु प्रत्यगात्मशब्दबलात् अपरोक्षज्ञानं प्राप्नोति इत्येवार्थः | एवमेव उत्तरत्र भवदुदाहृतवाक्येऽपि - वासुदेवनारायणशब्दयोः अभिन्नार्थत्वात् अत्रापि प्रतिपद्यते इत्यस्य 'यः एवं वासुदेवः सर्वं इति जानाति (नारायणं जानाति) इत्यर्थः | इममर्थं भाष्यटीकाकृदानन्दगिरयोऽपि व्याकुर्वन्ति - ज्ञानवत्त्वं प्राक्तनेष्वपि जन्मसु सम्भावितम् , इत्याशङ्क्य, आह - प्राप्तेति । ज्ञानवतो भगवत्प्रतिपत्तिं प्रश्नद्वारा विवृणोति - कथमिति । यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति - य एवमिति । इति |
अत्रापि भगवत्प्रतिपत्तिशब्दः 'वासुदेवः सर्वम् इति' इति ज्ञानप्रकारमेव द्योतयति न तु देवताविशेषस्य समीपगमनं वा तल्लोकगमनं वा | इममभिप्रायं शांकरभाष्यवाक्यानां तात्पर्यप्रकाशकधनपतिसूरिविरचित - भाष्योत्कर्षदीपिका - अपि स्पष्टीकरोति -
चरमजन्मनि लब्धपरिपाकज्ञानो मां वासुदेवं प्रत्यगात्मनं प्रपद्यते। कथं प्रपद्यत इत्याह । वासुदेवः सर्वमिति। यदिदं सर्वं चराचरात्मकं भ्रान्त्या भाति तत्सर्वं किमपि वासुदेवातिरिक्तं न भवति वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यादिश्रुतिसूत्रेभ्यः सर्वाधिश्ष्ठानं मां ज्ञात्वा मामेव परमात्मानं निरतिशयनिरुपाधिप्रेमविषयत्वेन भजति स महात्मा न तत्समोऽभ्यधिको वान्योऽस्तीत्यर्थः। इति | [अस्न्मिन् सूत्रभाष्येऽपि निर्गुणब्रह्मविचार एव प्रवृत्तः |]
अत्रापि पश्यतु ज्ञानप्रकारविवरणं भ्रान्त्यादिशब्दैः क्रियते | तत्र च्छान्दोग्यवाक्यमप्युदाहृतम् - कार्यस्य मिथ्यात्वे कारणमात्रस्य सत्यत्वे | एतादृशप्रयोगः अद्वैते न कुत्रापि सगुणब्रह्मप्रकरणे द्रष्टुं शक्यते | एवं च भाष्यगतनारायणवासुदेवादिशब्दानां सगुणब्रह्मार्थकथनं अद्वैतमतरीत्या नैव युज्यते | यत्र कुत्रापि मोक्षप्रतिपादकं वाक्यमस्ति तत्र सर्वत्र न सगुणब्रह्मप्रकरणं किं तु निर्गुणब्रह्मसन्दर्भ एव इति अद्वैतशास्त्रज्ञाः प्रतिपद्यन्ते | अद्वैते अपरोक्षज्ञानं निर्गुणचैतन्यस्यैव न तु सगुणदेवतायाः | देवताविषयकोपासनं तु ब्रह्मलोकप्रापकं न तु अत्रैव अस्मिन्नेव जन्मनि (जीवन्)मुक्तिदायकम् |
ईशनशील इत्यादिशब्दप्रयोगोऽपि सगुणब्रहमैव अत्र प्रकरणमिति भ्रान्तिं जनयेत् | परन्तु ईश/ईश्वरशब्दप्रयोगः निर्गुणब्रह्मणि क्रियते इत्यत्र दृष्टान्तं पश्यतु - ईशावास्यप्रथममन्त्रभाष्ये -
ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥ भाष्यम्
ईशा ईष्टे इति ईट् , तेन ईशा । ईशिता परमेश्वरः परमात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छादनीयम् । किम् ? इदं सर्वं यत्किं च यत्किञ्चित् जगत्यां पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना । यथा चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं पृथिव्याम् , जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु । इति |
अत्रापि स्पष्टं निर्गुणब्रह्मैव तात्पर्येण उच्यते इति | // स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्वं चराचरमाच्छादनीयं परमात्मना ।// //स्वात्मन्यध्यस्तं// परमार्थसत्यात्मभावनया // एवमीश्वरात्मभावनया युक्तस्य.. एतादृशप्रयोगदर्शनेन सम्यग् ज्ञातुं शक्यते यत् शांकरभाष्ये ईश्वरशब्दः निर्गुणचैतन्य-प्रत्यगात्म-विषयेऽपि क्रियते इति | एवमेव विष्णुशब्दोऽपि सर्वत्र भाष्ये निर्गुणचैतन्यविषयक एव न तु प्रसिद्धलक्ष्मीपतिविषयकः कुत्रापि | 'अहमेव विष्णुः, वासुदेवः, नारायणः' इत्यादि वाक्यानि नैव प्रसिद्धदेवतां द्योतयन्ति यतो हि अद्वैते 'अहमेव तत्' इत्यत्र निर्गुणचैतन्यमेव उद्दिष्टं न तु कश्चन देवताविशेषः | देवताविशेषे अहमेव तत् इति स्वरूपैक्यं नैव युज्यते |
---- *श्रीसुब्रह्मण्यवैद्यनाथवर्या:।*
No comments:
Post a Comment