*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
🤺बुधवासरः फाल्गुनकृष्णसप्तमी (27-03-19)⚔
✍प्रस्तावविषयः-- खड्गः🗡
आयुधानि केवलं हननाय न सन्ति अपिच शान्त्याः रक्षणाय च। यथा आरक्षकस्य दण्डं दृष्ट्वा चोराः चौर्यकार्यात् स्वयं दूरं गच्छति तथा आयुधं दृष्ट्वा कुकार्याणि कर्तुं दुष्टाः भयम् अनुभवन्ति। आयुधं बलस्य रक्षणस्य च प्रतीकम्। आधुनिककाले ये देशा आयुध- शक्त्यनुसारं अग्रे भवन्ति विश्वे तेषां प्रभाव अधिको भवति किल! तादृशः देशः जगति निर्णायकशक्तिर्भवति। धीराः कदापि दैन्यभावं न दर्शयन्ति। अस्माकं देवीदेवाः विविधानि आयुधानि स्वयं धारयन्ति दुष्टानां हनने शिष्टानां पालने च तेषाम् उपयोगं कुर्वन्ति।प्रयोगवैविध्यानुसारं विविधा आयुधानि रूपीकृतानि। खड्गः तेषु अन्यतमं सुप्रधानम् आयुधम्।।
खड्गः आधिकारस्य चिह्नम्। इदानीमपि सैनिकानाम् आरक्षकानां विशिष्टकार्यक्रमेषु पथसञ्चलनेषु च खड्गानाम् उपयोगं कुर्वन्ति। भारतीय -आयोधनकलासु खड्गप्रयोगो मुख्यः केरले कळरिपयट्टु इति आयोधनकलायाम् अस्य प्राधान्यं द्रष्टुं शक्नुमः। आकारस्य वैविध्यानुसारं खड्गाः विविधाः सन्ति लघुतरः दीर्घतरः वक्राग्रखड्गः इत्यादयः। विविधेषु पुरावस्तुसंग्रहालयेषु अद्यापि नृपाणां खड्गाः प्रदर्शिताः सन्ति।।
विष्णोः खड्गः - नन्दकः (अत एव शिष्णो अपरं नाम नन्दकी इति
नन्द्रकः खड्गोऽस्त्यस्येति। यथा "शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः" )
रावणस्य खड्गः - चन्द्रहासः
दुर्गादेव्या आयुधेषु अपि खड्गः विद्यते
"शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके"
~ सुनीशः
No comments:
Post a Comment