योगक्षेमं वहाम्यहम् l
कृष्णपुरीनामके ग्रामे सुरेशः नाम अष्टवयस्कः बालः स्वमात्रा सह निवसति स्म। तस्य पिता नारायणः वर्षद्वयात् पूर्व दिवंगतः। ततः पूर्वं ते नगरे न्यवसन्। तदा नारायणः कस्मिंन्+चित् कार्यालये उद्योगं कुर्वन् आसीत्। तस्य मरण+अनन्तरं सुरेशः मात्रा सह स्वग्राम्+आगत्य जीवितं नीतवान्। सुरेशस्य माता रत्नाम्बा नाम। तयोः कुटिकायाम् एकम् उद्यानम् अङ्गणं च। उद्याने बहुविधफलवृक्षाः पुष्पलताः+च आसन्। रत्नाम्बा अतीव गुणवती, कृष्णभक्ता च। सा सर्वदा धर्म+अनुष्ठानं कुर्वती आयुः+अक्षपयत्। कृष्णस्य भगवतः नाम+ऐव सर्वदा तस्याः मनसि, जिह्वायां च। स्वस्य सुखजीवनाय सा एकस्य धनिकस्य गृहे पात्रक्षालनं शोधनं पाचनम् इत्यादि प्रतिदिनं कुर्वती आसीत्। तथा लब्धेन वेतनेन अनायसेन कालयापनम् अकरोत्।
रत्नाम्बा दरिद्रा अपि स्वपुत्रं प्रतिदिनं विद्यालयं गन्तुं, सम्यक् पाठं पठितुं च प्रेरितवती, यतः सद्विद्याभ्यासात् बहवः सद्गुणाः उपलब्धुं शक्यन्ते इति तस्याः मतिः। 'विद्याधनं सर्वधनात् प्रधानम्' इति तस्याः विश्वासः। किन्तु तेन पाठशालां प्राप्तुम् एकं लघुवनम्+अतिक्रम्य गन्तव्यम्+आसीत्। रत्नाम्बा प्रतिदिनं स्वस्य गृहकार्यं सर्वं पूरयित्वा सुरेशेन सह वनस्य परप्रान्तं यावत् गच्छन्ती आसीत्। यदा तौ वनस्य परप्रान्तं प्राप्नुतः तदा स बालः जवेन विद्यालयं प्रति धावेत्। तदनु रत्नाम्बा धनिकस्य गृहे कार्यं कर्तुं निवर्तेत। सायंकाले सुरेशम् आनेतुं तया वनान्तं गन्तव्यम्+आसीत्। एवं दिनानि परियापितानि।
अथ एकस्मिन् दिने रत्नाम्बा अस्वस्था। अतः पुत्रेण सह गन्तुं न अशक्नोत्। सा बालम् अवदत् यत् त्वं निर्भयं सावधानम् एकाकी गच्छसि, यतः अहम् अस्वस्था इति। सुरेशः सधैर्यं गतवान्। सायंकाले गृहं प्रत्यागम्य सः उक्तवान्। "अहं वने गोपालं नाम एकं बालं दृष्टवान्। सः मम ज्येष्ठसहोदरवत् सस्नेहं वनान्तं गन्तुं साहाय्यं कृतवान्। सः वेणुवादने अतिनिपुणः+च " इति। इत्थं बालेन कथितां वार्तां श्रुत्वा माता विस्मिता+अभूत्। कोऽपि सहृदयः बालः स्यात् इति अचिन्तयत्।
कतिपयदिनानाम् अनन्तरं सुरेशः मातरम् उक्तवान्। "अम्ब! परेद्युः सायंकाले अस्माकं वर्गशिक्षिकायाः जन्मदिनाघोषः अस्ति। अतः कालविलम्बेन प्रत्यागमिष्यामि। माम् आनेतुं भवती आगमिष्यति वा? अपरं च मम सहपाठिनः सर्वे शिक्षिकायै उपहारान् दास्यन्ति। किमहं दास्यामि" इति।
एतत् श्रुत्वा रत्नाम्बा अतीव दुःखिता, यतः तस्याः सकाशे किञ्चित्+अपि धनं न आसीत्। तथापि परेद्युः स्वस्य उद्यानपुष्पैः निर्मितम् एकं गुच्छं सुरेशाय दत्त्वा-"इदं गुच्छम् अध्यापिकायै सविनयं देहि" इति उक्तवती।
सुरेशः तु पाठशालां गत्वा पुष्पगुच्छम् अध्यापिकायाः हस्ते सादरम् अर्पयित्वा प्रणाम्+अपि कृतवान्। तदा अध्यापिका तु साश्चर्यं- " किमेतत्? सुरेश, तव उपहारः पूर्वमेव मया लब्धः। पश्य " इति वदन्ती एकं सुन्दरं भाण्डं प्रदर्शितवती। सुरेशेन न किञ्चित् अवगतम्। सः तूष्णीं भूत्वा प्रत्यागतवान्। प्रत्यागमनसमये माता पुत्रम् अपृच्छत् यत् 'कुत्र तव ज्येष्ठः गोपालः? दर्शय मह्यम्', इति। तस्मिन् दिने गोपालः न आगतः। अथ स्वगृहं प्राप्य सुरेशः अध्यापिकायै दत्तम् उपहारभाण्डं अधिकृत्य अम्बायै निवेदितवान्। सर्वं श्रुत्वा रत्नाम्बा आश्चर्यचकिता आसीत्। क्षणेन तया सर्वम् अवगतम्+आसीत् यत् गोपालः साक्षात् भगवान् कृष्णः एव। तदा+एव सा आत्मनः पूजाकोष्टं गत्वा तत्र स्थापितस्य भगवतः कृष्णमूर्तेः पादयोः साष्टाङ्गं प्रणम्य उच्चैः विलपन्ती इत्थम् उक्तवती-"भोः देव, अहोरात्रं भवन्तं स्मरामि+अहम्। अद्य+अवधि मह्यं भवत्+दर्शनं न दत्तम्। मम पुत्रः+तु न जानाति+एव भवान् कः इति। तस्मै भवान् गोपालनाम्ना दर्शनम् अनुदिनं कञ्चन समयम्+अपि सहवासं च दत्तवान्। सदयं वद स्वामिन् किमर्थम् एतत्+इति।"
भूयोभूयः निराशतया, दुःखेन च जल्पितवती। उत्थाय सा किमपि+अपश्यत् भगवतः प्रतिमास्थाने एकः बालः तिष्ठति! सुरेशः+तु तं बालं दृष्ट्वा उच्चैः 'गोपाल गोपाल' इति आह्वानं कृतवान्। माता पुत्रश्च अतीव आह्लादभरितौ आस्ताम्। तदा गोपालानामा भगवान् रत्नाम्बां, पुत्रं च सस्मितम् 'ईदृशमेव मम भक्तानां योगक्षेमं वहामि+अहम् ' इति प्रख्यापयति स्म।
No comments:
Post a Comment