Monday, March 18, 2019

sleplessness - Sanskrit article

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🌚शनिवासरः माघकृष्णैकादशी (02-03-19)🌝
✍प्रस्तावविषयः-- अनिद्रा🥺

 या देवी सर्वभूतेषु निद्रा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

शरीरस्य मनसश्च आरोग्यार्थम् निद्रा अनिवार्या वर्तते। श्रान्ततानिवारणाय निद्रा उत्तमम् औषधम्। निद्रया मानवादि सर्वे जन्तवः नवोन्मेषं प्राप्नुवन्ति। यथा बाह्यावयवानां तथैव निद्रा आन्तरीकावयवानाञ्च आरोग्यं परिपालयति। समीचीननिद्राया अभावे रोगा जायन्ते मनः कलुषितं भवति बुद्धेः निष्क्रियत्वं मानसिकानारोग्यं च सम्भवन्ति। अतः जीवने अनिद्रा न भवेत्। वस्तुतः निद्रा सस्यलतादीनां कृतेऽपि मुख्या वर्तते।। 



न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।

कोऽपि क्षणकालमपि सर्वाणि कार्याणि त्यक्त्वा भवितुं न शक्नुवन्ति। निद्रा इदं प्रस्तावं प्रमाणीक्रियते यतः 
प्रकृतेः नियमानुसारं निद्रावस्थायाम् अपि शरीरे विविधाः प्रक्रियाः प्रचलन्ति। हृदयं निरन्तरं स्पन्दते रक्तचंक्रमणं तथा श्वासोच्छ्वासं तु भवत्येव। मस्तिष्कम् अपि भिन्नरुपेण प्रवर्तते।। 

निद्रायां मुख्यतया द्विविधवैद्युतस्पन्दने मस्तिष्के सम्भवतः। 

⒈ द्रुतदृष्टिचलनदश (rapid eye movement (REM) 

⒉दृष्टिचलनविहीनदश(non-rapid eye movement (NREM)

९० - ११० निमिषाणां अन्तराले एतयोः प्रभावः चक्रवत् परिवर्तते।। 


द्रुतदृष्टिचलनदशयां स्वप्नाः पश्यन्ति तदनुगुणं शरीरे वा मनसि वा किञ्चित् प्रभावोऽपि जायते। 

दृष्टिचलनविहीनदशयां प्रायः गाढतया निद्रा भवति। 

मानवानां पूर्णारोग्यार्थं ६-७ घण्टापरिमिता निद्रा अत्यावश्यकी। तथापि अमितनिद्रा आरोग्यं नाशयति इत्यपि सत्यम्।। 

नवजातशिशवः १८ होराधिकं निद्रां कुर्वन्ति। 

निद्रायां स्वप्नाटनं दुस्वप्नः स्वप्नभाषणं भयं निद्राधिक्यम् इत्यादयः अवस्थाः भवितुम् अर्हन्ति।। 

अधुनिके काले जीवतशैल्याः परिवर्तनात् आहारपद्धत्याः वैकल्यात् अनिद्रा बाधते इति तु सत्यम्।। 

- सुनीशः

No comments:

Post a Comment