- कः कृतार्थः नरः कलियुगे ? -
ते सभाग्या मनुष्येषु
कृतार्था नृप निश्चितम्।
स्मरन्ति ये स्मारयन्ति
हरेर्नाम कलौ युगे।।
अर्थात्, नरेश्वर ! मनुष्येषु सः एव सौभाग्यशाली एवं निश्चितरूपेण कृतार्थः जनः, यः अस्मिन् कलियुगे स्वयं हरिनाम्नः स्मरणं करोति तथैव अन्येभ्यः अपि तन्नाम स्मारयति, नामग्रहणार्थं प्रेरयति वा।
वस्तुतः युगानुसारं साम्प्रतं हरिनाम्नः जपकीर्तनम् एव भगवत्प्रीतिप्राप्तेः एकमात्रं सरलं साधनं वर्तते। अतः देशस्य अपाय-अमङ्गलादिकम् उत्पाट्य शान्तिस्थापनार्थं तथैव शहीदवीराणाम् आत्मशान्त्यर्थम् अस्माभिः सर्वैः अपि भगवन्नाम सततं कीर्तनीयम्। भगवन्नामग्रहणेन अपेक्षितं बलं बुद्धिं, सामर्थ्यं च भगवान् एव दास्यति इति विश्वासेन श्रद्धया नामकीर्तनमेव कर्तव्यम्। अस्तु।
No comments:
Post a Comment