स्वस्य अनुभवः--
पूर्वं कश्चन सज्जनः माम् अवदत् यत् यदि भवान् जीवने सर्वदिशि उन्नतिं शान्तिं च कामयते तर्हि सम्यक् संस्कृतं पठतु , यदि न पठति तर्हि जीवनं नाना विसङ्गतियुक्तं भवेत्, अन्यथा लौकिकिकं पारलौकिकं च किमपि ज्ञानं न प्राप्स्यति इति। तदा मम तस्य वचने विश्वासः नासीत्। परन्तु इदानीम् अनुभवामि यत् तद्वचनम् अकाट्यम् अवितथं च आसीत् इति।
स्वाभाविकतया अहम् अतीव चिन्ताशीलः बाल्यात् एव। किमपि कर्तुं मन्मनः न इच्छति स्म। कुत्रापि मनः न रमते स्म। किमपि अकृत्वा केवलं व्यर्थतया समययापनमेव भवति स्म तदा। दिनानि गतानि।
गृहसदस्यानाम् प्रेरणाप्रचेष्टादिभिः कष्टेन च मया विद्यालयादिषु अध्ययनं कृतम्। कालान्तरे दैवात् विज्ञानविषये स्नातकोपाधिः अपि लब्धः मया। साम्प्रतम् एकस्मिन् विद्यालये शिक्षकरूपेण कार्यनिर्वहणमपि कुर्वन् अस्मि। तथापि मनसि अन्तःप्रसन्नता मम नागता कदापि। सर्वदा निरुत्साहः, व्यर्थचिन्ता, कर्मणि अनासक्तिः इत्यादिकमेव मम जीवनस्य पाथेयम् इव अभवत्। किं करणीयम्।
एकदा हठात् मनसि पूर्वम् तेन सज्जनेन उक्तं वचनं मम स्मृतिपथम् आगतम्। तद्दिने एव मया दृढसङ्कल्पः कृतः यत् अद्यारभ्य अहं संस्कृतस्य सम्यक् अध्ययनचर्चादिकं करोमि इति। सङ्कल्पः तु अभवत्, परन्तु तदर्थं तु कोsपि आधारः, गुरुः, पुस्तकानि इत्यादिकस्यापि तु आवश्यकं भवेत्। परन्तु तत् न प्राप्तं मया। तथापि सङ्कल्पबलात् अास्थाभिरुचिकारणतः ईश्वरकृपातः वा मया इतस्ततः कृत्वा विरामसमये गृहादिषु एव संस्कृतस्य अभ्यासः कृतः। इदानीं संस्कृतं सम्यक्तया अवगच्छामि। एवं यदा संस्कृतस्य दैविकप्रकाशः अन्तःमनसि प्रविष्टः तदा मन्मनसि स्थितं पूर्वतनम् अन्धकारमयं चिन्ताशोकादिकं अकर्मण्यतादिकं च सर्वं पलायितम् इव अस्ति। इदानीं तु अहम् उत्साहपूर्वकं यत्किमपि कार्यं निष्ठापूर्वकं करोमि। पूर्वं यथा व्यर्थतया समययापनं भवति स्म, अधुना तु कार्यस्य कृते समयमेव न प्राप्नोमि। मनसि अत्यन्तं प्रसन्नता अस्ति इदानीं तु। एतत्सर्वस्य कारणं संस्कृतमेव इति मन्येsहम्।
मज्जीवनस्य अभिज्ञतया वदन्नस्मि यत् संस्कृतं ज्ञातुम् केवलं स्वस्य दृढसङ्कल्पः अभिरुचिः, श्रद्धा इति त्रिवेणी पर्याप्ता, तदनन्तरं प्रयासः। केवलं विद्यालयादिषु एव पठनेन संस्कृतज्ञानं भवेत् इत्यत्र मम विश्वासः नैव। संस्कृते देवानां शक्तिः, महर्षिणां तपोशक्तिः, मन्त्रशक्तिः च इति शक्तित्रयम् अन्तर्निहिता अस्ति। तच्छक्तित्रयमेव अध्येतृणां पूर्णं साहाय्यं करोति इति मदीयः विश्वासः। तच्छक्तिकृपाकारणतः मानवजीवनं प्रकाशमयम्, शान्तिमयम्, परमानन्दमयं च भवितुम् अर्हति। शम्।
No comments:
Post a Comment