हरिर्हरति पापानि हरिं वन्दे जगद्गुरुम् ।
हरिणा निहता दुष्टाः हरयेऽस्तु नमोनमः ॥
हरेरेवोत्थितं सर्वं हरेर्भृत्योऽहमस्मि भोः ।
हरौ स्थितं जगत्सर्वं हरे संरक्ष मां सदा ॥
शंभुर्मारनिवारकॊ विजयतॆ शंभुं त्रिनॆत्रं भजॆ
रुद्राणी खलु शंभुना सुरमिता तस्मै नमश्शंभवॆ ।
शंभॊरुत्थितमस्ति वाङ्मयमिदं शंभॊः पदं संश्रयॆ
शंभौ तिष्ठतु मॆ मनस्त्वविरतं शंभॊ शिवं प्रापय ॥
पिता देवो वरेण्यः पितरमनुदिनं भावये भक्तिपूर्णः
मदीयं जन्म पित्रा गुरुवरपितरे सर्वदा धन्यवादाः ।
पितुः श्रेष्ठोस्ति नान्यो भवतु मम पितुः पादयुग्मे प्रणामम्
मम प्रीतिर्गरिष्ठा खलु पितरि चिरा हे पितः त्वं महात्मा ॥
जग्मतुः काननं वीरौ भ्रातरौ रामलक्ष्मणौ ।
अन्विष्यन् भ्रातरौ वीरौ जगाम भरतॊ वनं ॥
भ्रातृभ्यां सह सीतापि चचार विजनॆ वनॆ ।
भ्रातृभ्यां शबरी दत्तॆ मूलानि च फलानि च ॥
भ्रातृभ्यां निर्गता बाणाः रक्षॊगणभयङ्कराः ।
भ्रात्रॊः भृत्यं कपिश्रॆष्ठं आञ्जनॆयं स्मराम्यहं ॥
भ्रात्रॊः विभीषणॊ भक्त्या शरणागतवानभूत् ।
हॆ भ्रातरौ युवां शत्रून् हत्वा पालयतं श्रितान् ॥
दुग्धं ददाति गौर्नित्यं यन्त्ररूपी तृणाग्रभुक् ।
प्राप्तयॆ तत्तृणाग्राणां गॊपालॊ गां वनं नयॆत् ॥
गवा गॊवर्धनॊद्धारलीलालॊलस्स तुष्यति ।
तुष्टो ददाति गॊपालः गवॆ कण्डूयनानि च ॥
महाक्रूरॊ वनचरः सिंहॊ गॊर्न पलायतॆ ।
गॊर्वत्सस्सिंहभीतस्तु अंब अंबॆति रॊदिति ॥
गवि सन्ति चतुष्कानि जठराणीति विश्रुतः ।
विषाणाभ्यामहं भीतॊ हॆ गौस्त्वं तिष्ठ दूरतः ॥
रमा जनानां परिपालयित्री [रमा जगत्सर्वजनाभिरामा] रमां सदाहं परिभावयामि ।
क्षीराब्धिशायी रमया रमॆशः प्रीतॊ रमायै नम इत्युपासॆ ॥
जानाम्यहं नैव परं रमायाः श्रीविष्णुवक्षॊ निलयं रमायाः ।
प्रतिष्ठितॊ विष्णुरसौ रमायां रमॆ रमॆऽहं मनसा स्मरंस्त्वाम् ॥
मतिः स्थिरा सदा भूयात् मतिं स्थापय केशवे ।
मत्या संशुद्धया युक्तः मत्यै देहि सुशिक्षणम् (मतये देहि शिक्षणम्) ॥
मत्याः (मतेः) दुश्चिन्तनं क्षिप्त्वा मत्याः (मतेः) शुद्धिमवाप्नुहि ।
मत्यां (मतौ) संवर्धतां भक्तिः शान्ता भव सदा मते ॥
लक्ष्मीर्भाग्यकरी सदा प्रियकरी लक्ष्मीं प्रपद्ये सदा
लक्ष्म्यादिष्टमिदं समस्तभुवनं लक्ष्म्यै कृपायै नमः ।
लक्ष्म्याः नैव हि मेऽपरा प्रियतरा लक्ष्म्याश्च भृत्योऽस्म्यहम्
लक्ष्म्यां तिष्ठतु मन्मनश्चिरतरं हे लक्ष्मि मां पालय ॥
धेनुर्दुग्धं ददाति प्रियवचनगणैः पूजयामश्च धेनुम्
धेन्वा प्रीतश्च धेन्वै जनयति मधुरं वेणुनादं मुकुन्दः ।
धेनोर्जातस्तु वत्सः पिबति खलु मुदाऽऽस्वाद्य दुग्धं हि धेनोः
धेनौ प्रीतिर्जनानां भवतु जनहिते त्वं हि धन्यासि धेनो ॥
स्वलङ्कृता वधूरेषा सीता राम विराजते ।
वधूं कुरुष्व ते भार्यां पाणिं गृण्हीष्व पाणिना ॥
वध्वा सह सुसन्तुष्टो जीव त्वं शाश्वतीस्समाः ।
वध्वे शैवधनुर्भग्नं त्वया दाशरथे महत् ॥
वध्वाः परतरा नास्ति काचित् सद्गुणभूषिता ।
वध्वाः कण्ठे सुवर्णीयं माङ्गल्यं राम बध्नुहि ॥
वध्वां संवर्धतां प्रीतिः तव राम निरन्तरम् ।
हे वधो त्वं च सुप्रीता भर्तुः प्रियतमा भव ॥
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।
उत्तिष्ठन् शयनात् प्रातः भुवं वन्दे दिने दिने ॥
भुवा धृता जनाः सर्वे जीविनश्च चराचराः ।
तुष्टि-पुष्टि-प्रदायिन्यै भुवे तस्यै नमो नमः ॥
बाह्याकाश-विमानेन यान्ति चन्द्रमसं भुवः ।
भुवो भविष्य-क्षेमाय वयमुत्तरदायिनः ॥
पापात्मानः प्रणश्यन्ति ये भूता भुवि भारकाः ।
हे भूः वसुन्धरे देवि पादस्पर्शं क्षमस्व मे ॥
माता साक्षाद्देवी जगति महती मातरं नौमि नित्यम्
मात्रा दत्तं चास्मिन् जगति जननं मातरे धन्यवादाः ।
मातुः श्रेष्ठं नान्यत् जगति सकले मातुरस्म्येकभक्तः
मातर्येतच्चित्तं भवति चिरमहो मातरेवं विधं मे ॥
नौ नौरॆतत्त्वयादृष्टं इत्युवाच बिडालकः ।
स्थापयावॊ जलॆ नावं समुद्रतरणॊत्सुकौ॥
नावाऽवयॊर्विवाहार्थं उपयॊगॊ महान् भवॆत् ।
नावॆ वायुपटं बध्नन् उलूकॊ बहुसुन्दरः ॥
नावः फलानि मूलानि नीत्वा गच्छाव द्वीपकं ।
नावः तलॆस्ति कलशं मधुना परिपूरितम् ॥
नावि तिष्ठन्नुलूकस्स गीतं गायति सुस्वनः ।
हॆ नौरुलूकं मां चैव नय सूकरसन्निधिम् ॥
आपस्त्रीभूम्निवार्वारीत्यमरॆ द्रष्टुमर्हसि ।
वारि स्तम्भ्य जगन्नाथॊ कन्नम्बाडिजलाशयॆ ॥
बभूवामात्यमुख्यस्स पौरजानपदप्रियः ।
वारिणा सिक्तवस्त्रॆण मुखं प्रक्षालयस्व टः ॥
प्रभातॆ कूजतॆ कुक्कु वारिणॆ ग्राममन्विषन् ।
विद्युता वारिजनकॊ वारिणॊ जायतॆ खलु ॥
वारिणॊ वारणं वस्त्रं यत्करॊति तदुच्यतॆ ।
वारिवारणवस्त्रं चेत्यातपत्रॆषु युज्यतॆ ॥
रमन्तॆ रविसन्तप्ताः वनॆ वारिणि वारणाः ।
जिह्वां कपॊलॆ न्यस्तस्य श्लॊकान् वारि (वारॆ) क्षमस्व मॆ ॥
मधुरं मधु हीत्यूचुः सॆवन्तॊ मधु वानराः ।
मधुना म-म-मत्तास्स्मः मधुनॆ म-म-मङ्गलम् ॥
मधुनर्जायतॆ मॊदः मधुनः स्वादमाप्नुमः ।
मधुनि पश्य मॆ बिम्बं हॆ मधॊ (मधु) भ-भवामरः ॥
जलमुक् पास्यति जलं जलधेः अनिलीकृतम् ।
श्यामवर्णं जलमुचं पश्यामो गगने वयम् ॥
मुक्ता जलमुचा वृष्टिः आधारा सर्वजीविनाम् ।
धन्यवादा जलमुचे दीयन्ते सर्वजीविभिः ॥
तस्मात् जलमुचो मुक्तं जलं गच्छति सागरम् ।
गुणान् एवं जलमुचः गुरुभिः शिक्षितोऽस्म्यहम् ॥
चातकस्य सदा दृष्टिः जलमुच्येव वर्तते ।
देशे हे जलमुक् वृष्टिं सकाले ह्येव वर्षय ॥
भिषग्-वरो रोग-विनाश-हेतुः
गदान्वितोऽहं भिषजं नमामि ।
अनामयोऽहं भिषजा हि भूत्वा
महद्धनं तद्भिषजे ददामि ॥
स्थातुं हि वाञ्छन् भिषजोऽतिदूरे
इच्छाम्यवाप्तुं भिषजः सदाशीः ।
विज्ञापनं मे भिषजि प्रसिद्धे
"भिषक्! वर! त्वं कृपया प्रसीद" ॥
कखॆ दॆशॆ गघॆ दॆशॆ राजौ शशसतुः पुरा ।
ऊचुर्मन्त्रिजनास्सर्वॆ राजौ राजौ रणाङ्गणम् ॥
गच्छतं युध्यथां तत्र मरणाय जयाय वा ।
राट्भ्यां मन्त्रिवचः श्रुत्वा युद्धॊत्साहॊ महानभूत् ॥
राट्भ्यां मन्त्रिवचः श्रुत्वा युद्धॊत्साहॊ महानभूत् ।
राट्भ्यां तदॊत्थितं घॊषः भूम्याकाशावपूरयत् ॥
राजॊः युद्धॆ सुसंबद्धॆ हताः कॊटिजनास्तदा ।
राजोः मा न्यस विश्वासं युद्धासक्तिर्ययोस्सदा ॥
पचन् पचति भक्ष्यानि पचन्तमभिवादयॆ ।
पचताऽनुगृहीतॊस्मि पचतॆ यच्छ तण्डुलम् ॥
पचतॊऽन्नं लभस्व त्वं पचतः पश्य कौशलम् ।
पचति न्यस विश्वासं हॆ पचन् त्वं सुखी भव ॥
महान् कवी राजति कालिदासः सरस्वतीदिव्यकटाक्षपात्रः ।
सलीलशब्दार्णवसञ्चरन्तं स्मराम्यहं तं मुदया महान्तम् ।
उत्कृष्टकाव्यं महता प्रणीतं रघूत्तमाणां चरितं प्रसिद्धं ।
शिवस्य गौर्याः प्रणयं च गीतं यॆनास्ति तस्मै महतॆ नमॊस्तु ॥
यथा जलं प्रावृषि कालमॆघात् यक्षस्य गीतं महतः प्रसूतम् ।
शण्णां ऋतूणां महतः सुचित्रं पठन् रसाम्भॊनिधिमज्जितॊऽस्मि ॥
शाकुन्तलं मालविकाग्निमित्रं प्रॆक्षन्नहं चापि पुरूरवीयं ।
न्यस्यामि भक्तिं महति प्रगल्भॆ धन्यॊसि हॆ हॆ महनद्वितीय ॥
आपत्कालॆ सहचराः सुहृदः सन्ति बान्धवाः ।
सुहृदः चिन्तयन् श्रॆष्ठान् तुष्टिमाप्नॊम्यहं सदा ॥
सुहृद्भिः सह मॆ कालॊ वर्षमॆकं क्षणायतॆ ।
यदागच्छन्ति गेहं ते सुहृद्भ्यः स्वागतं कुरु ॥
सुहृद्भ्यः त्वं सुखं मॊदं लभसॆ ज्ञानमॆव च ।
सुहृदामिङ्गितं ज्ञात्वा तत्सर्वं कर्तुमर्हसि ॥
सुहृत्सु न्यस विश्वासं खलु तॆ हितचिन्तकाः ।
यावत् हे सुहृदः भूमौ स्थ तावन्नास्ति मे भयम् ॥
ककुप् सर्वोन्नतत्वेन ख्याता हैमवती भुवि ।
जना यतन्त्यनेकास्तु ककुभं ह्यारुरुक्षवः ॥
अनेकास्तेषु वर्तन्ते ककुभा सुपराजिताः ।
उद्गिरन्ति पतन्तस्ते ककुभे ते नमो नमः ॥
ककुभो निर्गता गङ्गा जन्हुना स्थगिता पुरा ।
ककुभोऽद्भिस्सुसम्पूर्णा प्रवहत्यद्य भारते ॥
तेन्सिङ्घ् नोर्के च हिलरिः महत्यां ककुभि स्थितौ ।
पश्यावामित्यब्रवीतां पश्य हे पश्य हे ककुप् ॥
राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।
राजानं एवम्भूतं तु नमन्ति सकलाः प्रजाः ॥
राज्ञा दत्तं पण्डितेभ्यः महद्भ्यः पारितोषकम् ।
राज्ञे विपत्तिकालेऽपि साहाय्यं ह्यानयेत्ततः ॥
राज्ञो विद्वान् परः, किन्तु स हि सर्वत्र पूज्यते ।
राज्ञः श्रेष्ठतमं कर्म प्रजा-संरक्षणं खलु ॥
राज्ञि विज्ञापनं कुर्वन् प्राज्ञो हितमुदीरयेत् ।
सुलभाः पुरुषा राजन् सततं प्रियवादिनः ॥
विद्वांसः सुलभाराध्याः विदुषः त्वं सदाश्रय ।
विद्वद्भिरधिगच्छ त्वं सुज्ञानं विघ्नतारकम् ॥
विद्वद्भ्यश्च गुरुभ्यश्च धीमद्भ्यश्च नमॊ नमः ।
विद्वद्भ्यः जायतॆ विद्या विदुषां सङ्गतं शृणु ॥
विद्वत्सु लभसॆ मॊदं हॆ विद्वांसः स्त विश्रुताः ।
नापादॆशॆ वसत्यॆकॊ लिट् द्राक्षारसकॊविदः ।
चरन्तं पथि धीमन्तं लिहं एकः कृषीवलः ॥
हॆ लिट् मम रसास्वादकक्षामागन्तुमर्हसि ।
इति प्रीत्याह्वयत् तॆन लिहाह्वानं च स्वीकृतम् ॥
कक्षॆ लिहॆ प्रयच्छत् सः द्राक्षारसमकल्मषम् ।
तत् दृष्ट्वॊत्थितमुद्गारः मधुना हर्षितात् लिहः ॥
लिहस्तयानुमॊदं सः श्रुत्वा नापाकृषीवलः ।
लिहि द्राक्षारसस्यान्तर्धानमैक्षत हर्षितः ॥
अनश्नतः क्षुध्भवति क्षुध् अश्नन् हि निवारयेत् ।
क्षुधा जनाः पीडिताश्चेत् क्षुधे किञ्चित् प्रदीयताम् ॥
क्षुधो दूरङ्गतश्चापि क्षुधः पीडां न विस्मरेत् ।
नोत्सहेऽहं क्षुधि स्थातुं हे क्षुध् कुरु पलायनम् ॥
गीर्वाक्सरस्वती वाणी गिरं शुद्धां प्रवर्धयेत् ।
गिराऽनुद्वेगकारिण्या गिरे कुरुत पूजनम् ॥
गिरस्सर्वाणि काव्यानि जातान्यों प्रथमं गिरः ।
गिरि ध्यानं स्थापयामि हे गीः त्वं रक्ष मां सदा ॥
आपः सर्वमिदं भूमौ आपः पास्यन्ति जीविनः ।
अद्भिः तृप्तो महेन्द्रस्तु अद्भ्यो दत्ते स्थलं स खे ॥
अद्भ्यो जातानि जन्तूनि वर्धन्ते खल्वपां निधौ ।
तरन्त्यप्सु झषा मीनाः हे आपः भुवि वर्षत ॥
भूर्धत्ते जडजीवानि भूं न हन्यात् महत्क्षमाम् ।
भुवा प्रचालितश्चन्द्रः भुवे दत्ते पुनः प्रभाम् ॥
भुव: एवोत्थितो मेघः भुवः प्राणनियामकम् ।
भुवि वर्षति पर्जन्यं हे भूः नौमि पुनः पुनः ॥
No comments:
Post a Comment