Monday, February 18, 2019

name of Rama in Raghuvamsa - Sanskrit

राम इत्यभिरामेण वपुषा तस्य चोदितः। 
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम्॥
#रघुवंशमहाकाव्यम् १०/६७

अभिरमन्ते जना यस्मिंस्तद् अभिरामं मनोहरं सुन्दरं तेन अभिरामेण वपुषा शरीरेण चोदितः प्रेरितः गुरुः पिता राजा दशरथः तस्य नवजातशिशोः पुत्रस्येत्यर्थः जगतां लोकानां प्रथमं पूर्वं प्रधानं मङ्गलं कल्याणं शुभमिति जगत्प्रथममङ्गलम्। रमन्ते योगिनो यस्मिन् स रामः इति नाम एवेति नामधेयं चक्रे कृतवान्। अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः।

No comments:

Post a Comment