Friday, February 15, 2019

Madhvacharya - Sanskrit essay

 इतिहासः
सुमध्वविजयः इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं, वैशिष्ट्यं च वर्णयति । 'अयं मध्वाचार्यः हनुमत्-भीम-अवतारयोः परं वायुदेवस्य तृतीयः अवतारः' इति तस्य प्रख्यातिः । एतस्य पिता मध्यगेह भट्टः । माता वेदवती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् मानवः एकस्य दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच 'लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति' इति । तदनुसारेण क्रि.श.१२३८ तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेव इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं अप्रकटयत् । शास्त्रसंरक्षणार्थं भुवि आगतः सः एकादशे वयसि अच्युतप्रज्ञात् संन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नाम प्राप्तवान् ।

त्रयोदशे (१३) शतमाने प्रचलितायां बृहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्त्वा सर्वज्ञसूरिः इति उपाधिं प्राप्नोति । स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य पाण्डित्यस्य वैशिष्ट्यम् । एवं वेदस्य अर्थत्रयं, महाभारतस्य दशार्थं, विष्णुसहस्रनामस्य शतार्थं प्रदर्श्य एषः केरळे 'विश्वम्' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादितवान् इति तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।

मध्वाचार्यः (कन्नड: ಮಧ್ವಾಚಾರ್ಯ, आङ्ग्ल: Madhvacharya) (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत् । "आनन्दतीर्थः" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं वर्णितवान् । भारतस्य दर्शनशास्त्रेषु 'द्वैतं' प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रवर्तकः मध्वाचार्यः । 'अयं वायुदेवस्य अवतारः, अपि च अयं हनुमत्-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप' इति ख्यातिः ।

आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम उडुपी इत्यस्य नगरस्य समीपे अस्ति । मध्वाचार्यः मध्यगेहभट्ट-वेदवती इति दम्पत्यो: पुत्र: । पितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्यात् नामदीक्षां स्वीकृतवान् । आचार्यः अच्युतप्रज्ञः वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं दृष्ट्वा आचार्य: 'आनन्दतीर्थः' इति अपरं नाम दत्तवान् । किन्तु आचार्यः मध्वस्तु श्रुतिप्रतिपादितेन (यदी मनु प्रदिवो मध्व आदवे इति मन्युसूक्ते) 'मध्व' इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम तत्त्ववादः इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध: ।
सुप्रभातम्! 
अद्यत्वे माध्वाचर्यस्य तिरोभव महोत्सवः। 
अत एव यदि वयम् तस्य जीवनेतिहासम् स्मरामः अस्माकं कृते तद्बहु कल्यानम् भवेत्।

No comments:

Post a Comment