नमस्ते, भवने पिञ्जा: सन्ति, तन्त्र्य: सन्ति, व्यजनानि दीपा: च सन्ति। तानि परस्परं सुसम्बद्धानि च । परं विद्युत्प्रवाहमात्रं नास्ति। तथैव संस्कृतभवने ग्रन्था: सन्ति, कक्ष्या: सन्ति, अध्यापका: छात्रा: च सन्ति। परन्तु व्यजनानि न चलन्ति, दीपा: न प्रकाशन्ते च। यत: भाषाप्रवाह: नास्ति। वाक्प्रवाहे(वाक्प्रयोगे)आरब्धे अध्यापका: ज्ञानवायुं सञ्चारयेयु:, छात्रा: च देदीप्यमाना: सन्त: अखिलं विॆश्वं प्रकाशयेयु:।मित्राणि, कविवाक्यं स्मराम:-"संस्कृतेन सम्भाषणं कुरुSS, जीवनस्य परिवर्तनं कुरु,
यत्र यत्र गच्छसि पश्य तत्र संस्कृतं, संस्कृते: संरक्षणं कुरुSS"। जयतु संस्कृतम् जयतु भारतम् । *प्रा. डॉ. विजयकुमार: मेनन्, प्रान्तमन्त्री, संस्कृतभारती, विदर्भप्रान्त: ।*
No comments:
Post a Comment