Friday, January 11, 2019

Introduction to vedas -Sanskrit

|| *ॐ* ||
   " *वेदपरिचयः* " 
---------------------------------------------------------------------------------------
    संस्कृतसाहित्ये  वेदानां  स्थानं  सर्वोपरि  वर्तते ।  भारते  धर्मव्यवस्था  वेदायत्तैव ।  वेदो  धर्मनिरूपणे  स्वतन्त्रभावेन  प्रमाणम् , स्मृत्यादयस्तु तन्मूलकतया ।  श्रुतिस्मृत्योर्विरोधे  श्रुतिरेव  गरीयसी ।  न केवलं  धर्ममूलतयैव वेदाः  समादृताः ,  अपितु  विश्वस्मिन्  सर्वप्राचीनग्रन्थतयाऽपि ।
   प्राचीनानि  धर्म - समाज - व्यवहार - प्रभृतीनि वस्तुजातानि  बोधयितुं  श्रुतय एव  क्षमन्ते ।  
     प्रधानतया  वेदो  द्विविधः  मन्त्ररूपो  ब्राह्मणरूपश्च ।  मन्त्रसमुदाय  एव  संहिताशब्देन  व्यवह्रतः ।  ब्राह्मणरूपो  वेदभागस्तु  संहिताभागस्य  व्याख्यारूप एव ।  स  चायं  ब्राह्मणभागो  यागरूपबोधकतया  प्रथितः ।
   ब्राह्मणग्रन्थोऽपि  त्रिधा विभक्तो  भवति ---  *ब्राह्मणम्* ,  *आरण्यकम्* , *उपनिषदश्च*।  यज्ञस्वरूपप्रतिपादको  ब्राह्मणभागः ।  अरण्ये  पठिताः  यज्ञस्याध्यात्मिकं रूपं  विवेचयन्तो  वेदभागा  आरण्यकानि ।  उपनिषदो  ब्रह्मबोधिकाः मोक्षसाधनानि ,  अयमेव  भागो  वेदस्यान्तरूपतया वेदान्त  इत्युच्यते ।  ब्राह्मणभागो  गृहस्थानामुपयोगी , आरण्यकभागो  वानप्रस्थमाश्रितानाम् , उपनिषदश्च  सन्नयस्तानामुपयोगीत्यपि कथियितुं  शक्यते ।  
  श्वः वेदशब्दार्थः ।
---------------------------------------------------------------------------------------
  *卐卐ॐॐ卐卐*
---------------------------
डाॅ. वर्षा  प्रकाश  टोणगांवकर 
पुणे  /  नागपुर  महाराष्ट्र 
-----------------------------------
🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁🍁

No comments:

Post a Comment