Monday, December 10, 2018

Sri ramachandra stuti -Sanskrit sloka

*श्रीरामचन्द्रस्तुति*

*विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानवध्वान्तमित्रम् ।*
*भुवनशुभचरितं भूमिपुत्रीकलत्रं दशरथवरपुत्रं नौमि रामाख्यमित्रम् ॥*

*पदविभाग:*

विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानवध्वान्तमित्रम् 
भुवनशुभचरितं भूमिपुत्रीकलत्रं दशरथवरपुत्रं नौमि रामाख्यमित्रम् 

*अन्वय:*

(अहं) विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानवध्वान्तमित्रम्
भुवनशुभचरितं भूमिपुत्रीकलत्रं दशरथवरपुत्रं  रामाख्यमित्रम् नौमि ।

~ *शरवण:*
श्रीरामचन्द्रस्तुति

माता रामो मत्पिता रामचन्द्रो भ्राता रामो मत्सखा राघवेश: ।
सर्वस्वं मे रामचन्द्रो दयालु: नान्यत् दैवं नैव जाने न जाने ॥३॥

पदविभाग:

माता राम: मत्पिता रामचन्द्र: भ्राता राम: मत्सखा राघवेश: 
सर्वस्वं मे रामचन्द्र: दयालु: न अन्यत् दैवं न एव जाने न जाने 

अन्वय:

(मम) माता राम: । मत्पिता रामचन्द्र: । (मम) भ्राता राम: । मत्सखा राघवेश: । मे सर्वस्वं दयालु: रामचन्द्र: । अन्यत् दैवं  न जाने नैव जाने ।

~ शरवण:

No comments:

Post a Comment