अध्यात्मरामगङ्गा
--------------------
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥
– अध्या०रामा०1/1/5
अध्यात्मरामायणगङ्गा शङ्करहिमालयात्प्रादुर्भूय श्रीरामरूपेण सागरेण सङ्गम्य सकलभुवनानि पुनातीति तात्पर्यम्।अध्यात्मरामायणगङ्गा इति वक्तव्ये अध्यात्मरामगङ्गा इत्युक्तम्। अध्यात्मरामायणगङ्गेत्यस्याध्यात्मरामगङ्गेति नैवार्थबोधे समर्थः शब्दः। पाणिनिमते शब्दार्थयोर्वाच्यवाचकभावः।रामशब्दस्तद्वाच्यं दाशरथिनियतमर्थं बोधयिष्यति किन्त्वेकाक्षरकोषं विना मकारोऽकारो रकारो वा न तद्बोधयितुं समर्थः। अस्मन्मते वर्णस्फोटस्य गतेवोपयोगिता। वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः इति प्राचीनोक्तेः।
किं बहुना उच्चारित एव शब्दः प्रत्यायको भवति नानुच्चारितः इति भाष्यवचनादप्यध्यात्मरामगङ्गाशब्दोऽध्यात्मरामायणगङ्गार्थं कथं बोधयिष्यतीति चेत्। उच्यते। अत्राध्यात्मरामा यणशब्देऽध्यात्म-
रामशब्दस्य लक्षणा। यदि चेत्सा नैव वैयाकरणैरङ्गीकृता लक्षणाखण्डनं विस्तरशो नागोजिभट्टविरचित-
वैयाकरणसिद्धान्तलघुमञ्जूषायां विलसितं तदा शक्यतावच्छेदकता स्वीक्रियताम्। अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः
(वा०5/3/83)। यथा सत्या भामा सत्यभामा भामा सत्या इत्यादि।अनेन नियमेनायनशब्दस्य लोपः। तस्मादध्यात्मरामगङ्गाशब्दोऽध्यात्म-रामायणगङ्गार्थपरो लुप्तेऽप्ययनशब्दे तदर्थबोधकत्वात्।
–जय श्रीमन्नारायण।
No comments:
Post a Comment