Tuesday, November 20, 2018

Who is near to Shiva - Swami vivekananda -Sanskrit essay

☘☘

स्वार्थः एव परमाघः--ऐदम्प्राथम्येन स्वलाभचिन्तनम्।

यः चिन्तयति अहमेव प्रप्रथमं भोक्ष्ये ; अहमेव सर्वेभ्यः धनवत्तरः भविष्यामि ; अहमेव सर्वस्वामी भविष्यामि ; अहमेव सर्वेभ्यः पूर्वं स्वर्गं प्राप्स्यामि , स एव स्वार्थपरायणो जनः।

निःस्वार्थी चिन्तयति यत् अहं सर्वेभ्यः अनन्तरं लब्धुं कामये। अहं स्वर्गं गन्तुं नेच्छामि। अहं नरकमपि गन्तुं सज्जः यदि तेन मम बान्धवाः लाभान्विताः भवेयुः।

एषः निस्वार्थभावः एव धार्मिकतायाः यथार्थनिकषः। यः यावता अधिकप्रमाणेन निःस्वार्थः तावता प्रमाणेन सः अधिकः आध्यात्मिकः तथा च शिवसन्निधौ तिष्ठति।

सः अज्ञानी अथवा ज्ञानी भवतु नाम सः इतरेभ्यः अधिकं शिवं  निकषा तिष्ठति तस्य एतद्भानं न स्यात् चेदपि।

तथापि यः स्वार्थपरायणः -- यद्यपि सः सर्वाणि मन्दिराणि तीर्थानि च अटितवान् तथा च स्वशरीरं भस्मादिना चित्रकवत् लेपयति  --- तथापि सः शिवात् सुदूरे एव तिष्ठति।

*-----स्वामिविवेकानन्दः।*

🌸🌸

No comments:

Post a Comment