Friday, November 30, 2018

Vyanjana sandhi in Sanskrit

व्यञ्जनसन्धिः ।
--------------------

वर्णानाम् अतिशयितः सन्निधिः सन्धिः। 

द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्राकालात् अपि अधिककालेन व्यवधानं यथा न भवेत् तथा उच्चारणमेव सन्धिः । 


व्यञ्जनस्य स्थाने आदेशः , लोपः , व्यञ्जननिमित्तकागमश्च व्यञ्जनसन्धिः ।

पूर्वस्थितम् अक्षरं निरस्य नूतनस्य अक्षरस्य उदयः एव आदेशः ।

वर्णस्य अदर्शनं लोपः ।

स्थितस्य वर्णस्य पार्श्वे अपूर्वतया अपरस्य वर्णस्य उत्पत्तिः आगमः ।

यथा -

जगत् + ईशः = जगदीशः ।
अत्र तकारस्य स्थाने आदेशः ।


उभाव् + अपि = उभा अपि ।
अत्र वकारस्य लोपः ।


पचन् + अस्ति = पचन्नस्ति ।
अत्र नकारस्य व्यञ्जननिमित्तिकः आगमः ।

No comments:

Post a Comment