Wednesday, November 14, 2018

Saptarishi ramayanam Balakandam - Sanskrit with meanings

*॥ सप्तर्षिरामायणम् ॥*
_। बालकाण्डम् ।_

_कश्यप: उवाच_

*जात: श्रीरघुनायको दशरथान्मुन्यार्श्रयात्ताटकां*
*हत्वा रक्षितकौशिकक्रतुवर: कृत्वाप्यहल्यां शुभाम् ।*
*भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो*
*जित्वार्धाध्वनि भार्गवं पुनरगात् सीतासमेत: पुरीम्  ॥ १॥*

*पदविभाग:*

जात: श्रीरघुनायक: दशरथात् मुन्या: आश्रयात् ताटकां हत्वा रक्षित: कौशिकक्रतुवर: कृत्वा अपि अहल्यां शुभाम् भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा तत: जित्वा अर्धाध्वनि भार्गवं पुनरगात् सीतासमेत: पुरीम्  

*अन्वय:*
श्रीरघुनायक: दशरथात् जात: । मुन्या: आश्रयात् ताटकां हत्वा (यागं) रक्षित: । कौशिकक्रतुवर: अहल्यां शुभाम् कृत्वा तत: रुद्रशरासनं भङ्क्त्वा  पाणौ जनकजां गृहीत्वा  अर्धाध्वनि भार्गवं जित्वा  सीतासमेत: पुरीं पुनरगात् ।

~ ✍ *शरवण:*

No comments:

Post a Comment