Wednesday, November 14, 2018

Rules for 3rd vibhakti - Simple sanskrit sentences with examples

3Rd vibhaktis -Sanskrit sentences
*तृतीयाविभक्तिः*
१)  क्रियायां यत् *साधनं* भवति तस्य तृतीयाविभक्तिः भवति।
उदा - - सः दण्डेन शुनकं ताडयति।
अहं कुरवस्त्रेण मुखं मार्जयामि ।
२) *भावसूचकानां*  शब्दानाम् अपि तृतीया भवति।
उदा — बालकः *संन्तोषेण* क्रीडितुं गतवान् ।
माता *क्रोधेन*  बावकं ताडितवती।
३) *सह*  इति शब्दः यत्र भवति तत्र तृतीयाविभक्तिः भवति ।
उदा — पिता *पुत्रेण* *सह* नगरं गच्छति।
लक्ष्मणः *रामेण* *सह*  वनं गतवान्।
४) *विना*  इत्यस्य शब्दस्य योगे तृतीयाविभक्तिः भवति।
उदा — *धनेन*  *विना*  को౭पि न जीवति।
लेखन्या *विना*  बालकः लेखितुं न शक्नोति।
५) यः शब्दः *कारणवाचकः*  (हेतुवाचकः) भवति तस्य तृतीया भवति ।
उदा — मम *आगमनेन*  सः सन्तुष्टः।
६) प्रयाणसमये यत् वाहनं ऊपयुज्यते तत् *प्रयाणसाधनम्*। अतः तस्य तृतीयाविभक्तिः भवति।
उदा सः *द्विचक्रिकया* विद्यालयं गच्छति।
रामः कार्यानेन तिरुपतीं गच्छति।
७) यदा वयं किमपि क्रीणीमः तदा *यत्* *धनं* *दीयते* *तस्य* तृतीयाविभक्तिः भवति।
उदा — अहं *दशरूप्यकैः* एकां लेखिनीं क्रीतवान्।
८) निषेधार्थकः *अलं* शब्दः यत्र प्रयुज्यते तत्र तृतीयाविभक्तिः भवति।
उदा — बालाः! तूष्णीं तिष्ठन्तु। *अलं* कोलाहलेन।

No comments:

Post a Comment