Monday, November 5, 2018

Darbha- Sanskrit essay

Courtesy:smt.Baala Chiraavoori

स्वर्वाणीप्रकाशः (वाट्साप् गणः) 
🙏शनिवासरः आश्वयुजकृष्णतृतीया (27-10-18)🕉
✍प्रस्तावविषयः-- दर्भः🌿दर्भः

वैदिककर्मकाण्डेषु दर्भस्य प्राशस्त्यं अत्यन्तं अस्ति। कृष्णयजुर्वेदपरायते दर्भमुद्दिश्य बहु विधैः कीर्तितम्। उदकस्थितां प्राणशक्तिं दर्भाः अभिवृद्धिं कारयन्ति। कुशा, काशाः, व्रीहिः, यवाः, उशीराः, विश्वामित्रम्, बल्बजाः, गोधूमाः, कुन्दरम्, मूण्जः, पुण्डरीकम् इति द्वादशविधाः दर्भजातयः सन्ति।

एषु कुशदर्भान् ब्राह्मीदर्भा इति रजोदर्भा इत्यपि च उच्यन्ते। विश्वामित्राणि विष्णुसम्बन्धितानि।सात्विकानि च। काशाः तामसाः रौद्राश्च इति  परिकीर्तिताः। नामव्यवहारभिन्नत्वादपि एते सर्वेsपि दर्भा इत्येव व्यवह्रियन्ते। कुशाः एकोद्दिष्टे(अर्थात् अपरकर्मणि एकादशे दिवसे) उपयुज्यन्ते। प्रमादात् दुःशब्दान् शृतं चेत् दुष्टवस्तून् स्पृष्टं चेदपि तान् दोषान् अपसरति कुशः। विश्वामित्रं सात्विकत्वकारणात् सर्वेष्वपि कर्मसु उपयोगं कुर्वन्ति। दर्भाः शुभकृत्येषु समस्ख्यया अशुभकार्येषु विषमसंख्यया उपयोज्युं संप्रदायो वर्तते। पवित्रं दक्षिणकरस्यानामिकायां धरणीयम्। आचमनसमये कर्णे स्थातव्यम्। तद्विना इतरत्रा मा धारयेत्। तत्रापि दक्षिणानामिकामूले एव धरणीयम्। इतराङुल्येषु धारणेन दोषो आयाति। यः दर्भं धरति तस्य प्राणशक्तिं अभिवृद्धिं करोति दर्भः इति वृद्धाः कथयन्ति। ग्रहणकालेषु पदार्थेषु स्थितां प्राणशक्तिं संरक्षितुं दर्भाः प्रक्षिपन्ति। ( आचार्याः चिनजीयरस्वामि महभागानां तेलुगु प्रसङ्गमनूद्य) 

पितृश्राद्धे वसुरुद्रादित्यात्मकरूपपिण्डत्रयं दर्भेष्वेव स्थापनीयम्।तेन पितरः तृप्ताः भवन्ति। दर्भान् पूर्णिमानन्तरं प्रतिपद्यामेव छिन्द्यात् इति ब्रुवन्ति। तस्मिन् समये इमं श्लोकं पठनीयम्। 

विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज। 
नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव।। 
(अन्तर्जालात् स्वीकृतम्) 
     - - बाला... 🌷🙏✍

No comments:

Post a Comment