Monday, October 1, 2018

Women development-Sanskrit joke

*पत्नीनां प्रगतीपथः  नूनमेव स्वारस्यकरः*



                   *कथम्?*


*पश्यन्तु*



             *1960 मध्ये*


पतिः : एकचषकमितं चायम्


पत्नी : पत्युः आदेशात् प्राक् एव सा चायं सज्जीकृत्य तिष्ठति स्म



            *1970 मध्ये*


पतिः : एकचषकमितं चायम्


पत्नी : आनयामि अनुक्षणम्


            *1980 मध्ये*


पतिः : एकचषकमितं चायम्


पत्नी : आनयामि भोः


            *1990 मध्ये*


पतिः : एकचषकमितं चायम्


पत्नी : आनयामि, कृपया प्रतीक्षस्व



            *2000 मध्ये*


पतिः : एकचषकमितं चायम्


पत्नी : आनयामि, धारावाहिनीं पश्यन्ती अस्मि, विरामः आयाति चेत् निर्मामि



            *2010 मध्ये*


पतिः : एकचषकमितं चायम्


पत्नी : मा आक्रोश, त्वरा भवति चेत् स्वयमेव निर्माहि, पिब च





       *अधुना 2018 मध्ये*


पतिः : एकचषकमितं चायम्


पत्नी : किं  वदसि?


पतिः  : न न, अहं चायं निर्मातुं गच्छामि। मया चिन्तितं तव कृतेऽपि निर्मामि इति।



*एषः एव पत्न्याः विकासः द्योतते*

😆😆😆😆😆😆😆😆

No comments:

Post a Comment