Monday, October 22, 2018

Vamanavatar -Sanskrit essay

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
⛳शुक्रवासरः भाद्रपदशुक्लद्वादशी (21-09-18)🙏
✍प्रस्तावविषयः-- वामनावतारः🌷


दशावतारेषु विष्णोः पञ्चमावतारः वामनावतारः। वामन अर्थात् ह्रस्वः।विष्णुसहस्रनामावल्यां

"उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः"

 इति वामनो नामकं विष्णोः एकं नामधेयम् वर्तते ।पुराणे वामनावतारकथा प्रसिद्धा एव प्रायः एनां कथां सर्वे जानन्ति च।। 


प्रह्लादस्य पुत्रः विरोचनः तस्य पुत्रः महाबलिः सः महान् दानशूरः सत्यसन्धः धर्म्मिष्ठः सर्वोपरि विष्णुभक्तश्चासीत्। तस्य कीर्तिः त्रिलोकविस्तृता आसीत् बलिः स्वशक्त्या त्रैलोक्याधिपतिर्बभूव। इन्द्रादयः देवा: तस्य प्रभावात् स्थानभ्रष्टा अभवन्। अनेन देवमातु अदित्याः नितरां दुःखं जातम्। एवं देवमाता पत्या कश्यपेन सह देवानां दुःखनिवारणार्थं विष्णुम् उद्दिश्य तपः चक्रतुः। वर्षसहस्रान्ते तयोः तपसा प्रीतः भगवान् विष्णुः लक्ष्मीसहितं तयोः पुरतः प्रत्यक्षीभूय पुत्ररूपेण अवतारं स्वीकृत्य देवानां हितं करिष्ये इत्यवोचत्।। 

एवं भगवान् अदितिदेव्याः पुत्ररूपेण वामनावतारं स्वीकृतवान्। वटुवेषधरं सर्वज्ञं भगवन्तं विष्णुं दृष्ट्वा सर्वे देवाः ऋषयश्च तं स्तुवन्ति स्म। देवानां कार्यसिद्ध्यर्थं वामनरूपेण भगवान् बलिमहाराजस्य यज्ञशालां गतवान्। त्रैलोक्याधिपत्येन गर्वितः बलिः यज्ञस्य प्रथमे दानकाले एव वामनं विधिवत् पूजयित्वा नादेयं विद्यते तव अतः मनोभीष्टदायकोऽस्मि वाञ्छितं यत्किमपि प्रष्टुम् अर्हसि इत्यवोचत्।विष्णो मायारूपं ज्ञात्वा शुक्राचार्यः बलिं दानात् निवारयितुं प्रयत्नं कृतवान् तथापि स्वगुरुणा शुक्राचार्येण निवारितः सन्नपि बलिः दानं त्यक्तुं न इष्टवान्। एवं त्रैलोक्याधिपः बलिः प्रपञ्चाधिपस्य विष्णोः पादत्रयपरिमितस्य भूमे इच्छापूर्त्तिं कर्तुम् अशक्नुवन् आत्मानं भगवतः पुरतः समर्पितवान्। बलेः दानशूरत्त्वं दृष्ट्वा भगवान् अतीव प्रसन्नो जातः तस्योपरि अनुग्रहवर्षं कृत्वा देवानामपि दुर्गम्यं विशिष्टतरं सुतललोकं प्रति बलिं प्रेषितवान्। नृसिंहावतारसमये प्रह्लादं प्रति तव वंशपरम्परायाः परिपालनं युगे युगे करिष्यामि इति पूर्वमेव भगवता प्रोक्तमासीत् एवं बले अनुग्रहेण स्वीयं वचनं परिपालयन् कारुण्यरूपः विष्णुः देवानां हितं साधितवान् च। इत्थं धन्यस्य कृतकृत्यस्य बलेः कथा तथैव भक्तवत्सलस्य भगवतः विष्णोः चरितञ्च वामनावतारेे निरूपितम्।। 


🙏🙏🙏

- सुनीशः

No comments:

Post a Comment