वृद्धकुमारीवाक्यन्यायः ।
------------------------------
काचन वृद्धा आसीत् । सा तपं कृतवती । देवेन्द्रः प्रसन्नः जातः । वरं ददामि, किमपि वरं पृच्छतु इति सः उक्तवान् । सा बुद्धिमती आसित् । सा एकेन एव वाक्येन वरं पृष्टवती । तस्याः वाक्यम् एवम् आसीत् - मम पुत्राः सुवर्णस्थालिकायां प्रचुरमात्रया घृतम्, दधि, क्षीरम् इत्याति भोजनं कुर्वन्तः सन्तः इति अहं दृष्टुम् इच्छामि । देवेन्द्रः तथास्तु इत्युक्त्वा वरमपि दत्तवान् । तस्याः इदं वाक्यं वृद्धकुमारीवाक्यम् इति प्रसिद्धं जातम् । अनेन एकेन लघुवाक्येन तस्याः बहूनि आग्रहाणि फलितानि । एकेनैव वाक्येन सा किं किं साधितवती इति पश्यामः ।
सुवर्णस्थालिकायां पुत्रस्य भोजनं कारयितुं प्रभूतं धनम् आवश्यकम् । अतःसा धनिका अभवत् । पुत्रं जनयितुं विवाहं करणीयम् । विवाहार्थं वृद्धा कुमारी भवितव्या । एवं प्रकारेण सा युवत्वम्, विवाहम्, सन्तानं, सम्पत्ति च एकेनैव वरेण प्राप्नोत् ।
लघुवाक्येन वा लघुक्रियया वा बहूनि कार्याणि प्राप्नोति ( साधयति , सम्पादयति ) चेत् तादृशे प्रसङ्गे एषः न्यायः उद्धर्तुं शक्यते ।
No comments:
Post a Comment