Friday, October 26, 2018

Sanskrit simile camel & bamboo stick

उष्ट्रलगुडन्यायः ।
---------------------
उष्ट्रः लगुडानां भारं वहन् गच्छति ।  उष्ट्रस्य पृष्ठे उपविशन् कश्चन पुरुषः तस्मात् लगुडभारात् एव एकं लगुडं स्वीकृत्य तं उष्ट्रं ताडयति । लगुडभारवहनेन कष्टं सहमानः उष्ट्रः तस्मात् लगुडात् एव इदोपि अधिकं पीडा सहते ।यत्र क्रियमाणेन  कष्टप्रदेन कर्मेण इदोपि अधिकं कष्टं भवति तत्र एषः उष्ट्रलगुडन्यायः प्रवर्तते । वादविवाद समये स्वस्य पराजयं स्वस्य वादेन एव भवति चेद् तादृशे प्रसङ्गे एतस्य न्यायस्य प्रयोगं भवति ।

No comments:

Post a Comment