Monday, October 15, 2018

Ganesha ashtakam -Sanskrit sloka

Courtesy: Sri.Dr.krishna moorthy 
श्रीगणेशाष्टकम्
भजेम शक्तिबालकं सदा विनायकं विभुं
भजेम शङ्करात्मजं गुहाग्रजं गणेश्वरम् ।
भजेम मूषवाहनं नमेम विघ्ननाशकं
व्रजेम चादिपूजितस्य चाश्रयं मुदावहम् ॥१॥

भजेम हस्तिशीर्षकं नमेम लम्बजाठरं
स्तुवेम सर्पसूत्रिणं मदेभदैत्यमर्दनम् ।
पठेम मुद्गलाख्यकं पुराणकं च सादरं
श्रयेम पार्वतीसुतं कपित्थसारभक्षणम् ॥२॥

भुजेम तत्प्रसादकं वराप्परूपभक्ष्यकं
मधूरुवासिनं परं परात्परं परोद्भवम् ।
ससिद्धिबुद्धिभार्यकं वराङ्कुशप्रधानकं
भजेम पाशधारिणं पुनः पुनर्नमेम तम् ॥३॥

नराकृतिं गजाकृतिं निराकृतिं पराकृतिं
महाकृतिं वराकृतिं श्रयेम सुन्दराकृतिम् ।
महागणेशमादरेण बालरूपिणं प्रभुं
वरैकदन्तमाश्रयेम शुद्धबुद्धिदायकम् ॥४॥

यजेम ब्रह्मणस्पतिं कविं कवीन्द्रपूजितं
हुवेम ज्येष्ठराजकं प्रचण्डपापनाशकम् ।
भजेम शूर्पकर्णकं प्रपञ्चकारणं गुरुं
विसर्गसर्गपालनं श्रयेम चात्मरूपिणम् ॥५॥

गकारपूर्वरूपका ह्यकारमध्यरूपका
तथानुस्वाररूपका च बिन्दुरुत्तरे तथा ।
सुनादसंविधानिका सुसंहिता च सन्धिता 
गणेशविद्यका हि सा स्मरेम तां च सर्वदा ॥६॥

विशेषरक्तवर्णिनं सुरक्तवाससं तथा
सरक्तगन्धलेपनं सुरक्तपुष्पपूजितम् ।
सुभक्तभक्तिवश्यकं प्रमुक्तिशक्तिदायकं
भजेम दूर्वया च तं महाप्रभासुसन्निभम् ॥७॥

अवत्वनन्तरूपकोऽपि सर्वतोऽखिलं जगत्
प्रपञ्चनाशभीषणोऽपि सज्जनान् सुरक्षतु ।
चतुर्थिजातपूजितोऽपि सर्वदाऽपि पातु नो
विशेषदैन्यसंयुतानवत्वशेषपाठकान् ॥८॥

टिप्पणी—

     स्तोत्रमिदं "प्रमाणी" नाम वृत्ते निबद्धमस्ति । उदा— "मुदा करात्तमोदकं सदा विमुक्तिदायकम्"— आदिशङ्करकृता गणेशपञ्चरत्नमालिका । "ल्गिति प्रमाणी ।अध्यायः ५। सूत्रम् ८ ॥ (पिङ्गलाचार्यप्रणीतच्छन्दःशास्त्रम्)"— लकार (। वा लघुः) गकारा (ऽ वा गुरुः) भ्यां यद् वृत्तं समाप्यते तत् 'प्रमाणी ' नाम । 'जरौ लगौ ' इति छन्दोमञ्जरीग्रन्थे । 
उदा— सरोजयोनिरम्बरे रसातले तता च्युतः ।
          तव प्रमाणमीक्षितुं क्षमौ न तौ बभूवतुः ॥
"लहू गुरू णिरंतरा पमाणि अट्ठअक्खरा ।" इति प्राकृत-पिङ्गळ-सूत्रम् २ । ६९ ॥ 
"द्वितुर्यषष्ठमष्टमं गुरुप्रयोजितं यदा ।
 तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥"  इति श्रुतबोधानुसारेण नगस्वरूपिणीत्यपि नामान्तरम् ॥
(इति हलायुधभट्टकृत-मृतसञ्जीविन्याख्यवृत्त्यादिषु)
"पुनातु भक्तिरच्युता सदाच्युताङ्घ्रिपद्मयोः ।
 श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥" 
 प्रमाणिका जरौ लगौ ॥
(इति शब्दकल्पद्रुमे)
प्रमाणसिद्धे — "प्रमाणिका जरौ लगौ"— वृत्तरत्नाकरोक्ते अष्टाक्षरपादके ॥ (इति वाचस्पत्ये)

No comments:

Post a Comment