अन्धपङ्गुन्यायः ।
-----------------------
कश्चन अन्धः आसीत् । कश्चन पङ्गुः आसीत् । द्वावपि कुत्रचित् गन्तुम् इच्छतः । अन्धः दृष्टुं न शक्नोति । पङ्गुः चलितुं न शक्नोति । पङ्गुः वदति - चिन्तामास्तु , अहं भवतः नेत्र रूपेण कार्यं करोमि । मार्गं वदामि । अन्धः वदति - चिन्तामास्तु , मम स्कन्धयोः उपविशतु अहं भवन्तं नयामि । तथा परस्पर साहाय्येन द्वावपि लक्ष्यस्थानं प्राप्नुतः ।
एवम् एव अस्माभिः परस्य दोषान् त्यक्त्वा गुणान् स्वीकृत्य परस्पर साहाय्येन कठिनं कार्यम् अपि सुलभतया साधयितुं शक्यते इति एषः न्यायः बोधयति । एतादृशे प्रसङ्गे एतस्य न्यायस्य उद्धरणं कर्तुं शक्यते ।
No comments:
Post a Comment