Tuesday, October 16, 2018

Bhagavad gita sloka 3.34-Sanskrit explanation

*श्लोकः*

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३–३५॥

*पदच्छेदः*

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात्।
स्वधर्मे निधनम् श्रेयः परधर्मः भय-आवहः॥३–३५॥

*अन्वयः*

स्वनुष्ठितात् परधर्मात्  विगुण: स्वधर्म: श्रेयान् । स्वधर्मे निधनं श्रेय: । परधर्म: भयावह: ।

*पदार्थः*

श्रेयान् –श्रेयस्,स. पुं. १.१
स्वधर्म: -स्वधर्म,अ. पुं. १.१
विगुण: - विगुण,अ. पुं. १.१
परधर्मात् –परधर्म,अ. पुं. ५.१
स्वनुष्ठितात् –स्वनुष्ठित,अ. पुं. ५.१
स्वधर्मे –स्वधर्म,अ. पुं. ७.१
निधनम्–निधन,अ.नपुं. १.१
श्रेय: - श्रेय,स.नपुं. १.१
परधर्म: -परधर्म,अ. पुं. १.१
भयावह: -भयावह,अ. पुं.  १.१

*सन्धिः*

स्वधर्मो विगुणः=स्वधर्मः+ विगुणः,विसर्गसन्धिः(सकारः,रेफः,उकारः),गुणसन्धिः
विगुणः परधर्मात्=विगुणः+ परधर्मात्, ^क^ पवादेशौ
निधनं श्रेयः=निधनम्+ श्रेयः,अनुस्वारसन्धिः
श्रेयः परधर्मः=श्रेयः+ परधर्मः, ^क^ पवादेशौ
परधर्मो भयावहः=परधर्मः+ भयावहः,विसर्गसन्धिः(सकारः,रेफः,उकारः),गुणसन्धिः

*समासः*

स्वधर्म:–स्वस्य धर्म: - - षष्ठितत्पुरुष:
विगुणः–विगताः गुणाः यस्मात् सः–बहुव्रीहिः
परधर्म:–परस्य धर्म: - - षष्ठितत्पुरुष:
भयावह:–भयस्य आवह: - षष्ठितत्पुरुष:

*तात्पर्यम्*

भगवान् श्रीकृष्ण: अवदत् ,स्वनुष्ठितात् अन्यधर्मात् गुणरहितस्वधर्म:  श्रेयान् । स्वधर्मे स्थितस्य मरणमपि श्रेय: ।अन्यधर्म: अनर्तजात: ।

No comments:

Post a Comment