*🌼 प्रेरणामूर्तिः सातवलेकरः 🌼*
भारतभूमिः रत्नानां खनिः। अत्र अनेकानि नररत्नानि जातानि, यैः स्वैरुत्तमकार्यैः लोकहृदयेषु चिरन्तनस्थानं प्राप्तम्। तेषु श्रीपाददामोदरसातवलेकरमहोदयोsप्यस्ति। तस्य जीवनं विद्यार्थिनां कृते अतीव प्रेरणादायकमस्ति। ज्ञानार्जनस्य कृते न वयः बाधकम्। विद्या तु कस्मिन्नप्यपि वयसि प्राप्तुं शक्यते। तस्योत्तममुदाहरणमासीत् तस्य महापुरुषस्य जीवनम्। आजीवनं स विद्यार्जनं कृतवान्। तस्य वेदभाष्याणि प्रसिद्धानि। संस्कृतभाषायाः प्रचाराय अनेकाः ग्रन्थाः तेन लिखिताः, सूर्यनमस्कारेण च स्वास्थ्यरक्षायाः सन्देशः दत्तः। गुजराते वलसाडनगरसमीपे स्वाध्याय-मण्डलनाम्नी संस्था स्थापिता। ततः सर्वत्र वेदप्रचारः संस्कृतप्रचारश्च तेन कृतौ। स्वातन्त्र्यसमरे अपि भागो गृहीतः।
मूलग्राहिपाण्डित्यस्य प्रतिमूर्तेः तस्य गणना भारतस्य प्रतिष्ठितपण्डितेषु भवति। सततं कर्मयोगरतः स भारतसर्वकारेण "पद्मभूषण" -इति पुरस्कारेण सम्मानितः। अद्य श्रीसातवलेकरवर्यस्य जन्मदिवसे वयं तस्य सत्कृत्यानां कृतज्ञतापूर्वकं स्मरणं कुर्मः। नमो विद्वद्वर्याय दामोदरसातवलेकराय वेदमूर्तये!
No comments:
Post a Comment