Friday, September 21, 2018

Greed -maa grudha ::isavasyopanishad -Sanskrit

मा गृधः कस्यस्विद्धनम् । - ईशावास्योपनिषत् १

परकीयां सम्पदं मा गृधः ।

मानवस्य सर्वेषां सद्गुणानां सम्पूर्णतया नाशकारी प्रधानो दुर्गुणो नाम लोभः, योऽयं मानवेषु वसति । अनेन लोभाख्येन एकेन अल्पेन दुर्गुणेन दोषेण मानवः दानवः संवृत्तोऽस्ति ॥

किं नाम लोभः ? अन्येषां धनं प्रति इच्छा । धनवत्त्वेऽपि अतृप्तता, समृद्धधनित्वेऽपि सत्पात्रे विनियोगाकरणम्, सम्पत्भूयिष्ठत्वेऽपि पुनः पुनः धनलिप्सा, अत्याशा – इत्येतत् सर्वमपि लोभस्य रूपान्तरम् । न हि तावता सुलभेन साधकानां लोभस्य जयः सम्भवति । प्रयत्ने कृते न शक्यते इत्यपि न ॥

'अन्यस्य धनं मा गृधः' इति श्रुतिमाता अस्मान् उपदिशति । अस्मदसम्बद्धम् अनस्मदीयं परकीयं यत् किञ्चित् वस्तु भवतु, तत् लोष्टसमम् इति जानीयात् । तृप्त्या आनन्दः अनुभोक्तव्यः इति अयं मन्त्रः बोधयति । परमार्थतस्तु अस्मासु विद्यमानमपि अस्मदीयं धनं कस्य ? भगवत एव । एवं व्यवहारं कुर्वतः दुःखं नैव विद्यते ॥📔📔📔

No comments:

Post a Comment