वन्दे गुरुपरम्पराम्
उडुपी श्रीकृष्णविग्रहस्य ऐतीह्यम्
========<=========
कर्णाटक राज्ये उडुपी नगरेस्थित श्रीकृष्ण देवालयम् प्रसिद्धमस्ति । तत्र प्रतिष्ठित कृष्णविग्रहम् अतीव नयनाभिरामम् । तं बालकृष्णम् " दिग्वाससं कनकाभूषणभूषिताङ्गं " इति कथयन्ते । किञ्चित् सूत्रतन्तुरपि नास्ति तस्य बालरूपस्य दिगम्बर शरीरे, किन्तु सर्वाभरणालङ्क्रृतोSस्ति । तस्य हस्ते दधि मथनार्थमुपयुक्तं मन्थनदण्डश्चास्ति।
किन्तु कथं बालकृष्ण विग्रहं अग्रतोमुखी नास्ति? कथं पृष्ठमेव गर्भगृहे पश्यन्ते? मुखं द्रष्टुम् पार्श्वे एकं जालकमस्ति। एतस्य ऐतीह्यमि
त्यस्ति।
पुरा कण्णदासर् नाम्न: एको श्रेष्ठ: कृष्णभक्त: उडुपी नगरे वसति स्म । स: नित्यं श्रीकृष्णमन्दिरं गतवान् , कृष्णं मनसा अप्रार्थयत् च । परं स: अब्राह्मण: , अत: गर्भगृहस्य पुरत: तस्य प्रवेशनम् निषिद्धमासीत् ।
एकदा कण्णदासर् श्रीकृष्णम् दर्शयितुं अतीव व्यग्रोSभवत् । तस्य व्यग्रता गीतरूपेण प्रकटीकृत: ।
तेन एतदुत्कृष्टं कीर्तनं रचितवान् । अद्यापि इदं गीतम् भक्ता: सर्वे$पि गायन्ति।
कृष्णा नी बेगने बारो
*****************
कृष्णा नी बेगने बारो
बेगने बारो मुखवन्ने तोरो
( हे कृष्ण! त्वम् शीघ्रम् आगच्छ।
अचिरात् आगम्य तव सुन्दरवदनं दर्शयतु।)
कालालन्दिगे गेजे नीलद बावुली
नीलवर्णने नाट्यवनदूत बारो
( नूपुरशिञ्जित पादाभ्याम्
नीलकङ्कणालङ्कृत च कराभ्याम्
हे नीलवर्ण! नृत्यम् कृत्वा आगच्छतु।)
उडियल्लि उडिगेजे बेरलल्लि उङ्गुर
कोरलल्लि हाकिद वैजयन्ति माले
( स्वर्णशृङ्खलया शोभित कटि:,
अंगुल्याम् च वर्तुलम् शोभते, कण्ठे विराजति वैजयन्तिमाला ।)
काशी पीताम्बर कैयल्लि कोललु
पूसिद श्रीगन्ध मय्योलं अगम
( पीत काशी कौशेयाम्बरम् धृत्वा
हस्ते मुरलीदण्डश्च, कलभकस्तूर्यादिसुवासित
ममाग्रत: आगच्छ। )
तायिगे बायल्ली जगवन्नु तोरिदा
जगदोद्धारक नम्म उडुप्पी श्रीक्रृष्णा
( य: स्ववक्त्रे मातरम् सकलम् ब्रह्माण्डम् दर्शयति,
स: जगतोद्धारक: , अस्माकम् उडुपी श्रीकृष्ण: )
बालकृष्ण: कण्णदासस्य तीव्र आग्रहम् दृष्ट्वा हस्ते धृत मन्थनदण्डेन भित्तिकाम् अप्रहारयत् , अत्रोटयत् च। भित्तिकाया: छिद्रात् तेजोमय दिव्य प्रभा बहि: स्फुरति। श्रीकृष्णस्य दिव्यरूपम् कण्णदासस्याग्रे प्रकटमभूत् ।
अद्यापि तत् विग्रहम् तथैव तिष्ठति।
No comments:
Post a Comment