त्रिरङ्गात्रयम्
****
(१)
शीर्षांशे रमणीयकुंकुमनिभं वर्णं सुशौर्यात्मकं
मध्यांशे धवलं प्रशान्तचरितं यस्याः परिभ्राजते।
निम्नांशे हरितं समृद्धिभरितं चिह्नं मनोरञ्जकं
वन्दे भारतभाग्यवर्द्धनरतां मे तां त्रिरङ्गां सदा।।
(२)
यस्यां राजति सुन्दरं बहुगुणं चक्रं स्वरापूरितं
द्यौर्वर्णाकलितं महायुधसमं नित्यं रिपुत्रासकम्।
हिन्दुस्थानविकाशवर्द्धनकरं राष्ट्रस्य शौर्यास्पदं
वन्दे भारतभाग्यवर्द्धनरतां मे तां त्रिरङ्गां सदा।।
(३)
या स्तम्बाद् गगने प्रखेलति मुहुः दशोन्नतिग्राहिणी
यस्या रूपगुणादिकं विजयते चित्तं नराणां क्षणात्।
यां दृष्ट्वा परदेशशासकगणः शंकाकुलः सर्वदा
वन्दे भारतभाग्यवर्द्धनरतां मे तां त्रिरङ्गां सदा।।
(व्रजकिशोरः)
No comments:
Post a Comment