Friday, August 17, 2018

Sanskrit subhashitam

Courtesy: Sri.Trilokinath 
*ॐ श्रीगणेशाय नमः ॥ जयमहादेव ॥*

पन्थामनुचरेम सूर्यचन्द्रमसाविव । पुनर्ददताध्नता जानता सं गमेमहि ॥    
     (ऋग्वेद ५|५१|१५|)

💐अर्थ  :- हम सूर्य और चन्द्रमा की भांति कल्याण-युक्त मार्ग पर चलते रहें। दानी, अहिंसाकारी,ज्ञानी जनों तथा परमात्मा से मेल कर सदा सुख प्राप्त करें। 
🌴🌴🌴🌴🌴🌴🌴🌴🌴

*सूर्यदेवः चन्द्रदेवः च विश्वं प्रकाशेते ।*
*एतौ जगतः हिताय हि सदा द्योतेते ।*
*सूर्यचन्द्रौ शुभकर्तरि मार्गे चलतः ।*

*सूर्यचन्द्रवत् वयम् अपि कल्याणेन युते पथि चलन्तः भवाम ।*
*दानिनः अहिंसाकारिणः ज्ञानिनः परमात्मानं च मिलित्वा सदा सुखं लभामहै ।*
*परमात्मनः कृपया वयम् अपि दानिनः अहिंसकाः ज्ञानिनः च भवाम ।*

*🌹🌹 सर्वेषां सुमङ्गलं भूयात् 🌹🌹*
*" जयतु संस्कृतम् ॥ जयतु भारतम् ॥"*

No comments:

Post a Comment