Friday, August 3, 2018

Gita and bhagavatam sanskrit essay

*भगवद्गीता भागवतं च।*


गीताविस्तारो भागवतम्'इति उक्ति: प्रसिद्धा।अनया दृष्ट्या उभौ ग्रन्थौ यदा अवलोकितौ, तदा कतिचन साम्यस्थलानि दृष्टानि।तानि दृष्ट्वा उपरितना उक्ति: यथार्था अस्ति इति निश्चय: भवति।एतानि तानि साम्यस्थलानि-
1)मृत्यो: अपरिहार्यत्वम्। भीष्मादिकानां मृत्युविषये शोक: न उचित:' इति कृष्ण: गीतायां प्रतिपादयति। तदर्थं स: कारणं वदति - जातस्य हि ध्रुवो मृत्यु:।भ.गी. 2.27 एतद् एव तथ्यं भागवते एवं प्रतिपादितम् - मृत्युर्जन्मवतां वीर, देहेन सह जायते। अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुव:॥भाग
2)कृष्ण: परब्रह्मस्वरूप: । गीतायाम् अर्जुन: श्रीकृष्णस्य स्तुतिं करोति - परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।10.12,13
भागवते तु कृष्णजन्मन: पूर्वम् एव ब्रह्मदेव: सर्वान् देवान् भविष्यद्वृत्तं ज्ञापयति - वसुदेवगृहे साक्षाद् भगवान्पुरुष: पर:। जनिष्यते . . .॥ भाग10.1.23 कृष्णजन्मन: समनन्तरं वसुदेव: कृष्णम् उद्दिश्य वदति - विदितोऽसि भवान्साक्षात्पुरुष: प्रकृते: पर:। भाग10.1.23
3 दिव्यं जन्म श्रीकृष्ण: अर्जुनाय गीतायां स्वस्य जन्म दिव्यम् अस्ति इति वदति -जन्म कर्म च मे दिव्यम्।भ.गी.4.9
एतद् दिव्यं जन्म कथं भवति इति वर्णनं भागवते प्राप्यते - देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय:। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कल:।तद्द्भुतं बालकमम्बुजेक्षणम् . . .। भाग 10.3. 8,9,10
4 सर्वधर्मपरित्याग: गीतायां भगवान् अर्जुनाय उपदिशति -सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:।। भ.गी.18.66
अत्र सर्वधर्माणां त्याग: विहित:। सर्वधर्मेषु कस्य कस्य अन्तर्भाव: भवति इति भागवतं पठित्वा ज्ञायते।तत्र कृष्ण: उद्धवाय उपदिशति तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्। प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च। मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।यदि सर्वात्मभावेन मया स्या: ह्यकुतोभय:। भाग 11.12.15
5 भक्ति-प्राधान्यम् गीतायां विश्वरूपदर्शनानन्तरं भगवान् वदति - नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां च यथा। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप॥ भ.गी.11.53,54
अत्र सर्वेषु साधनेषु भक्ते: प्राधान्यम् उक्तम्। किं बहुना वेदादिकानि अन्यानि साधनानि मम प्राप्त्यर्थम् असमर्थानि, भक्ति: एका समर्था इति भगवत: आशय:।तथापि एतस्माद् वचनात् पूर्वं साधनानां तारतम्यविषये अर्जुनस्य प्रश्न: नास्ति। भागवते उद्धवमुखेन एष: प्रश्न: साक्षाद् वाचित:।'हे कृष्ण, ब्रह्मवादिन: नाना साधनानि वदन्ति। तत्र विकल्प: अस्ति अथवा मुख्यगौणभाव: अस्ति?' (भाग. 11.14.1) अनन्तरम् एतद् एव उत्तरं भववता दत्तम्-
न साधयति मां योगो न साङ्ख्यं धर्म उद्धव।न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता॥ भक्त्याहमेकया ग्राह्य: श्रद्धयात्मा प्रिय:सताम्।भक्ति:पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्।भाग11.14.21,22
6 कृष्णमनस्कता कृष्णप्राप्ति: च। गीतायाम् अन्तत:भगवान् अर्जुनम् उपदिशति - मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे॥ भ.गी.18.65
अत्र मन्मना भव इति साधनम् उपदिष्टम्। तस्य फलं मामेवैष्यसि इति कथितम्।भागवते एतस्य साक्षात् निदर्शनं दृश्यते।यदा कृष्ण: न दृष्ट: तदा गोप्य: ह्ताशा: जाता:।ता: स्वगृहं प्रति निवृत्ता:। तदानीं तासां स्थिति: भागवते वर्णिता-
तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिका:।तद्गुणानेव च गायन्त्यो नात्मागाराणि सस्मरु:।भाग 10.30.44
स्वगृहं विस्मृतवत्य: गोप्य: पुन: यमुनापुलिनम् आगता:!मन्मना भव तथा मामेवैष्यसि इति एतयो: फल-साधनसम्बन्ध: व्यासेन गोपीवृत्तेन साक्षात् दर्शित:।गीतोक्तसिद्धान्तस्य एतावद् मनोहरम् उदाहरणम् अन्यत्र न स्यात् !
7 भक्तरक्षणव्रतम् गीतायां भगवान् अर्जुनाय प्रतिशृणोति - कौंतेय प्रतिजानीहि न मे भक्त: प्रणश्यति।भ.गी.9.16 भागवते एषा प्रतिज्ञा एवम् - तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम्।गोपाये स्वात्मयोगेन इति मे व्रत आहित:। भाग ?
8 भक्तिमार्गे सामग्र्या: गौणत्वम् गीतायां श्रीकृष्ण: व्याहरति - पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं ।भक्त्युपहृतमश्नामि प्रयतात्मन:।।भ.गी.9.16
तत्र भागवते श्रीकृष्ण: एतद् एव वचनं दरिद्राय सुदाम्ने श्रावयति -पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।तदहं भक्त्युपहृतमश्नामि प्रयतात्मन:।। भाग10.81.4
9 नवद्वारं पुरम् गीतायां देह्स्य कृते अयं शब्दप्रयोग: कृत:-सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।नवद्वारे पुरे देही नैव कुर्वन्न कारयन्। भ.गी.5. 13
एतस्य नवद्वार-पुरस्य विवरण तु गीतायां न लभ्यते। तद् विवरणं भागवते लभ्यते -नवद्वारं पुरम् ।अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति। भाग4. 29. 8
एतेषां नवानां द्वाराणां दिग्विभाग: अपि तत्र एव दत्त:- अक्षिणी नासिके आस्यमिति पञ्च पुर: कृता:।दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत:।पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते। भाग4. 29. 9

-अन्तर्जालात् प्राप्तं लेखनं लेखकः - ईश्वर् भट्ट् 
🙏🙏🙏

No comments:

Post a Comment