सुहृदः, दुःखपूर्णदिवसेऽस्मिन् महात्मनः वाजपेयी-महोदयस्य स्मरणं कुर्मः।
वाजपेयी विजयते- लेखकः फ्रोफ़ेसर चौडूरि उपेन्द्र रावः, जे. एन्. यु.
----------------------------------------------------------------------------
बभूवुर्भारते श्लाघ्ये बहवस्त्यागभूषणाः ।
कटिबद्धास्सदा देशरक्षाय सततोद्यताः ॥
मध्यप्रदेशे विदिते ग्वालियर्नगरे वरे ।
अजातशतृणानेन प्राप्तं जन्म सुखावहम्॥
बाल्यादेव यशस्तस्य परिव्याप्तं समन्ततः।
बुध्या विशुद्धया विद्यासम्पत्या समवर्धत॥
पठने लेखने चैव भाषणे क्रीडने युवा ।
व्यायामे धावने युद्धे जनसंघटने पुनः ॥
सर्वेष्वपि मनुष्येष्वग्रणीरटलः पुमान् ।
बभूव देशभक्त्यां सस्सर्वाधिकगुणोज्वलः॥
यद्यप्यासन्ननेकानि कौशलान्यस्य धीमतः ।
भाषणेऽनर्गले श्लाघ्ये प्रतिभाऽसीत्समादृता ॥
वाचस्पतिसमस्यास्य नेतुस्सम्मोहभाषणं ।
शृत्वा मोदप्रपूर्णास्ते जनास्सर्वे समुत्सुकाः ॥
लक्षाधिकैस्सभास्वस्य कृता जययजयध्वनिः ।
ननर्तुर्मोदमग्नास्ते ननन्दुस्सर्वमानवाः ॥
युवाऽयं देशभक्तोऽस्मद्दुःखानि पृथुलान्यपि ।
नाशयित्वा स्थिरं सौख्यमानेष्यति सुनिश्चितम् ॥
भारतस्यामितां कीर्तिं द्विगुणीकृत्य शाश्वतीं ।
प्रतिष्ठामस्य राष्ट्रस्य लोकेषु प्रापयिष्यति ॥
अन्यैरेतादृशैर्भावैरित्थं लोकाश्शुभाशयैः ।
चिन्तयामासुरनिशं वाजपेयीसमर्थकाः ॥
नानापदेषु स्थित्वाऽयं नेता प्रादर्शयद्वरं ।
सामर्थ्यमद्भुतं श्रेष्ठं जनमोक्षप्रदायकम् ॥
पश्चान्नेताऽयमत्यल्पे स्थितोऽपि विमलाकृतिः ।
वयसि प्रतिभाशक्त्या लेभे सर्वोन्नतं पदम् ॥
प्रधानामात्यरूपेण कृतैः कार्यैः समुज्वलैः ।
प्रजास्तस्य सदा चकृर्जय-जीवध्वनिं मुदा ॥
दलेन भारतीयेन जनहर्षप्रदायिना ।
विजिते भारते मोदी नरेन्द्रोऽयं प्रवर्धते ॥
यदि न स्याद्वजपेयी दलं स्यादधुना कथं ।
नुते हि महतां राष्ट्रे लोकशोक-विनाशके ॥
कीर्त्या विशुद्धया शुभ्रज्योत्स्नाधवलया श्रिया ।
वर्धतां राष्ट्रभक्तोऽसौ सम्मोदेन निरन्तरम् ॥
भ्राजतां भव्यनेताऽसौ मोदतां जनरञ्जकः |
स्वास्थ्येन महता शक्या कीर्त्या राराजतां भुवि ॥
इति शम्
This poem was written in 2015.
------------------------------------------------
स्वतंत्रता_दिवसस्य_भाषणम्
नमः सभायै सभापतिश्च समुपस्थिता: मम गुरव: अतिथिगणश्च सर्वेभ्यः प्रणाम:।
सर्वप्रथमम् सर्वेभ्यः अस्य स्वतन्त्र्यपूर्वण: नैका: शुभाभिकामना: यथा हि अस्माभि: विदितम् अस्ति यद् अद्य स्वातंत्र्यपर्वण: द्विसप्ततितम: वर्षग्रंथि: समायोज्यमाना अस्ति। भारतस्वतन्त्रतादिनम् 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवरूपेण आयोज्यते। १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत्। अतः एतद् दिनं भारतस्वातन्त्र्यदिन - उत्सवत्वेन आचर्यते। तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म। १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारत- त्यागम् अकुर्वन्।भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते। स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला) भारतगणराज्यस्य प्रधानमंत्रिण: भाषणेन आरभते। ततः प्रधानमन्त्रि-द्वारा-ध्वजारोहणं भवति। अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्रस्तुतं कुर्वन् सर्वेभ्यः शुभाशयं यच्छति। ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणः ध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति। स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः। भाषणानन्तरं भारत गणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति। तस्मिन् दिने भारतीय-त्रिवर्णध्वजः सर्वत्र विराजते।
संस्कृतभारतम् समर्थभारतम्
---------------------------------------------------
गायन्ति देवाः किल गीतकानि
धान्यास्तु ये भारतभूमिभागे।
स्वर्गापवर्गास्पदहेतुभूते
भवन्ति भूयः पुरुषाः सुरत्वात्।।
----------------------------------------------------
लोके जनानां प्रियवाजपेयी
रत्नेषु पूज्यः अटलः प्रसिद्धः।
नास्त्यद्य शोकेन जनाः रुदन्त:
शून्यं हि विश्वं विरहे वदन्ति।।
सचिनत्रिपाठी😭😭😭😭👏👏
No comments:
Post a Comment