Thursday, August 23, 2018

Aseervadam -Sanskritessay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
बुधवासरः आषाढकृष्णचतुर्थी (01-08-18)
 ✍प्रस्तावविषयः--  आशीर्वादः


आशीर्वादो नाम अनुग्रहवचनम्। सर्वे मानवाः जीवने उन्नमनमेव कांक्षन्ति सज्जनानां आशिषा एव श्रेयो भवतीति अस्माकं विश्वासः।यद्यपि मङ्गलवाक्यकथनं नतु केवलं भारतीयानां रीति अपिच आविश्वे जनाः परस्परं सद्वचनैः व्यवहारः क्रियते तथापि एतद् अस्माकं संस्कृतिषु आचारस्यापि भागभूतकार्यम्। 

गुरोः तथा मातापित्रोः एवं ज्येष्ठानाम् आशीर्वादसम्पादनं अस्माकं देशस्य पुरातनसंस्कारः। अद्यापि कुटुम्बबन्धानाम् आधारमेव परस्परबहुमानः तथा सौहार्दपूर्वकस्वस्तिवाचनमेव खलु? 

आशीर्वादेन मनसि आत्मविश्वासवृद्धिर्जायते। तेन आदरभावः वर्धितः भवति। बालिकाबालकानां मनसि नितराम् आह्लादं जनयति स्नेहपूर्वकानि वचनानि।। 

अतीवकष्टावस्थायां कदाचित् मनसः शक्तिर्न्यूना जायते यदि तदानीं समादरणीयव्यक्ते अनुग्रहेण नवीनम् ऊर्जं प्राप्नुवन्ति जनाः तेन एकेनैव कारणेन दुःखावस्थां तीर्त्वा पुनरपि पूर्वाधिकोत्साहेन जीवनमार्गे आगन्तुं शक्नुवन्ति।। 

परस्परम् अभिवादनं स्वस्तिवाचनकथनञ्च वैदिकसंस्कारः। अस्माकं देवाः देव्याश्च अनुग्रहतत्पराः तेषाम् अनुग्रहमुद्रा एतदेव सूचयति ननु । जीवने नित्यनैमित्तिकानुष्ठानसन्दर्भेषु पूज्यानाम् अभिवादनम् आशीर्वादप्राप्तिः द्वयमपि सनातनधर्मस्य वैशिष्ट्यम्।। 



🙏🙏🙏

- सुनीशः

No comments:

Post a Comment