Wednesday, July 4, 2018

Totakashtakam -Sanskrit story

यदा मन्दबुद्धिशिष्यः गिरिः रोगपीडितस्वगुरोः  श्रीशङकरस्य रुधिरसिक्तवस्त्राणि प्रक्षालनार्थं नदीं  गच्छन्नासीत् तदा पठनार्थं सर्वे इतरशिष्याः  पूर्वमेव प्रकोष्ठं  प्रविशन्नास्त । 

परन्तु गुरुः स्वशिष्यगिरेः आगमनार्थं किञ्चित्कालं कक्षां स्थगितवान् ।

 असूयाग्रस्ताः सर्वे शिष्याः भिक्तिं दर्शयन्तः सन्  परस्परं एतादृशं अभाषन्त । 
गिरिरपि एतद्भिक्तिसदृशमेव । कक्ष्यायां तस्य उपस्थितिं वा अनुपस्थितिं वा एकैव भविष्यतीति । 
एषा क्रूरतरा वाक् श्रुत्वा दुःखितः गुरुः तत्क्षणमेव ज्ञानदृष्ट्या स्वशिष्यं गिरिं स्मरितवान्  । 
तत्क्षणमेव ज्ञानपरवशे निमग्नः क्लेदवस्त्रधरः  गिरिः नदीतः उत्थित्वा उच्चैः क्रोषन्  स्वगुरुं श्रीशङकरम्  प्रशंसयन्  तोटकाष्ठकं गायन्नेव कक्षायां प्रविश्य गुरुपादयोः पतितवान् ।
विदिताखिलशास्त्रसुधाजलधे, महितोपनिषत्कथितार्थनिधे ।
हृदये कलये विमलं चरणम् ,
भवशङकरदेशिक मे शरणम्।।
तद्दिनादारभ्य गुरोः अनुग्रहात् मन्दबुद्धिः गिरिः तीक्ष्णबुद्धिं प्राप्तवान् ।
 तोटकावृक्तिरचितान्  एतान्  अष्ठसंख्याकान्  श्लोकानेव  तोटकाष्ठकमिति प्रसिद्धिं प्राप्तः ।
अद्य  प्रभृति     तोटकाष्ठकं गुरुभक्त्याः  अत्युत्तमम्  उदाहरणरूपेण राजते ।

No comments:

Post a Comment