Tuesday, July 17, 2018

Sanskrit joke

*😀किञ्चित् हास्यम् 😀*

*स्वामी-* (सेवकं प्रति) त्वया किमपि कार्यं क्रियते तत्पूर्वं ममाज्ञा अवश्यमेव स्वीकर्तव्या।

*सेवक: -* (कानिचन क्षणानि अनन्तरम्) स्वामिन्! पाकशालायां मार्जारी दुग्धं पिबन्ती अस्ति, किं तां निष्काशयामि??

No comments:

Post a Comment