Thursday, June 21, 2018

Veera savarkar -Sanskrit

नमः सभायै।

वीर सावरकर

यदा आंग्लशासकै: द्विवारमाजीवनकारावासस्य शासनं यस्मै दत्तं तदा स उक्तवान्," अस्तु। एतेन सिद्धं यत् आंग्लशासका: पुनर्जन्मनि विश्वसन्ति।" 

स अस्ति कोमलह्रदयकविः-कुशाग्रबुध्दिवान्-विज्ञानवादी-अर्थतज्ञ -तत्वज्ञ-बहुभाषाविद्-हिंदुत्ववादी-जातिप्रथाविरोधकः - परं सर्वतोपरी महान् क्रांतिकारीस्वदेशभक्तः स्वातंत्र्यवीर विनायक दामोदर सावरकर। न प्रमादेन अपितु ज्ञात्वैव *अस्ति* पदं योजितं मया। तस्य नश्वरशरीरं तु नष्टम्। परं कीर्तिरूपेण स  यावच्चंद्रदिवाकरौ जीवति। कल्पनातीतविलक्षणघटनाभिः तस्य जीवनगाथा पूरिता। 

  अल्पवयसि स मित्रैः सह स्वदेशं आंग्लदास्यशृंखलाया: मुक्तं कर्तुं शिवमंदिरे शिवलिगं रक्ताभिषेकं कृत्वा प्रतिज्ञां कृतवान्। तथा आजीवनं स्वदेशसेवां  कृत्वा प्रतिज्ञानिर्वहणं कृतवान्। 

  १९०५ शततमे महोदयः शिष्यवृत्तीं प्राप्य उच्चशिक्षणार्थं लंडनदेशं गतवान्। तत्र *अभिनव भारत* नाम्ना संस्था स्थापयित्वा तत्रस्थान् भारतीयान् स्वातंत्र्यसमरे यथाशक्ति सहभागाय आह्वानं कृतवान्। अन्येषां देशस्थैः क्रांतिकारकैः सह संपर्कं कृत्वा अग्न्यस्त्रनिर्माणतंत्रज्ञानं तेन हस्तगतम्। तत् तंत्रज्ञानं तथा च Browning Pistol  भारते प्रेषितवान्।   सावरकरस्य अग्रजः बाबारावं अंदमाने प्रेषितः आंग्लशासकैः । प्रतिशोधाय सावरकरस्य शिष्येण मदनलालधिंग्रामहोदयेन लंडननगरे कर्झन वायली नाम्नः आंग्लाधिकारिणः हत्या  कृता। अनंत कान्हेरेवर्येण सावरकरमहोदयात् प्राप्य भुशुण्ड्या (बंदुक से) नाशिकनगरप्रान्ताधिकारी जैक्सनस्य वधः कृत:। 

विनायकस्य अपराध: सिद्ध:। अतः तं लंडनत: जलयानेन भारतं प्रति प्रेषितवन्त: शासका:। तदा सावरकरमहोदयेन फ्रान्ससमीपस्थमार्सेलीसपोतस्थानके काचगवाक्षं विदार्य  जलयानात् सागरे कुर्दितः। अहो! कियत् दुःसाहसम्! तस्य चिंतनमासीत् यत् ""यद्यहं फ्रान्सदेशस्य सीमायां प्रवेशं करोमि चेत् आंग्लशासकाः किमपि कर्तुं न शक्नुवन्ति।"

परं भाषासमस्याकारणात् फ्रान्ससैनिकाः न किमपि अवगतवन्तः। अतः ब्रिटीशसैनिकैः पुनः विनायकः  स्थानबध्दः जातः। अंदमाने ११ वर्षयावत् महान्तं परिश्रमं सहितवान्। अनन्वितात्याचारादपि तस्य स्वदेशप्रेम न किंचिदपि न्यूनं जातम्। तत्र तेन कण्टकसहायेन कालप्रकोष्ठे स्वरचना लिखिता। 

   सेल्युलर कारागृहः भारतीयानां तीर्थस्थली। एकवारं तत्र गत्वा तत्रस्था मृत्तिका तिलकरूपेण धारणं अस्माकं कर्तव्यम्। सावरकरबन्धुद्वयेनसह अनेकाः क्रान्तिवीरास्तत्र मरणप्रायात्याचाराः असहन्त स्वदेशं दास्यश्रुंखलायाः मुंचितुम्।

  स्वातंत्र्यप्राप्त्यानंतरं तेन जातिप्रथानिर्मूलनार्थं जनान्दोलनं प्रारभत। भाषाशुध्दिः तथा च लिपीशुध्दिः एतयोरान्दोलनयोरपि स जनकः। 

क्रमांक, चित्रपट, बोलपट, नेपथ्य, वेशभूषा, दिग्दर्शक, प्राचार्य, प्राध्यापक, मुख्याध्यापक, शस्त्रसंधी, कीलक राष्ट्र , टपाल, दूरध्वनी, नभोवाणी, ध्वनिक्षेपक, अर्थसंकल्प, विधिमंडळ, परीक्षक, तारण, संचलन, गतिमान नेतृत्व, क्रीडांगण, सेवानिवृत्तीवेतन, महापौर, हुतात्मा, उपस्थित ….एतादृशाः नैकाः   आंग्लपर्यायवाचकशब्दाः तेन अन्वेषिताः । 

तस्य "माझी जन्मठेप" एतत् पुस्तकं सर्वैः अवश्यं पठनीयम्।

सावरकरसदृशैः नैकैः देशभक्तैः स्वप्राणाहुतिः स्वातंत्रयज्ञे दत्ता । तस्मादेव वयं स्वतंत्रभारते श्वसितुं शक्नुमः। तेषां बलिदानं व्यर्थं न भवेदेतादृशं वर्तनमस्माकं कर्तव्यम्।

महोदयस्य स्वतंत्रतास्तोत्रेण समारोपः भवेदिति उचितमेव खलु! पश्यतु महोदयस्य चिंतनगभीरता भाषाप्रभुता च। नतमस्तको$हं भवत्सदृश: महामानवं प्रति।

   *जयोस्तुते श्रीमहन्मंगले ! शिवास्पदे शुभदे 
स्वतंत्रते भगवती ! त्वामहं यशोयुतां वंदे ॥धृ.॥ 

राष्ट्राचे चैतन्य मूर्त तू नीती-संपदांची 
स्वतंत्रते भगवती ! श्रीमती राज्ञी तू त्यांची 
परवशतेच्या नभात तूची आकाशी होसी 
स्वतंत्रते भगवती ! चांदणी चमचम लखलखसी 
वंदे त्वा महं यशोयुतां वंदे ॥१॥ 

गालावरच्या कुसुमी किंवा कुसुमांच्या गाली 
स्वतंत्रते भगवती ! तूच जी विलसते लाली 
तू सूर्याचे तेज, उदधीचे गांभीर्यहि तूची 
स्वतंत्रते भगवती ! अन्यथा ग्रहण नष्ट तेची 
वंदे त्वा महं यशोयुतां वंदे ॥२॥ 

मोक्ष-मुक्ति ही तुझीच रुपे तुलाच वेदांती 
स्वतंत्रते भगवती ! योगिजन परब्रह्म वदती 
जे जे उत्तम उदात्त उन्नत महन्मधुर ते ते 
स्वतंत्रते भगवती ! सर्व तव सहचारी होते 
वंदे त्वा महं यशोयुतां वंदे ॥३॥ 

हे अधम-रक्तरंजिते, सुजन पूजिते, श्रीस्वतंत्रते 
तुजसाठि मरण ते जनन, तुजवीण जनन ते मरण 
तुज सकल चराचर शरण, श्री स्वतंत्रते 
वंदे त्वा महं यशोयुतां वंदे ॥४॥* 



——मानसी दीक्षित

No comments:

Post a Comment