एकः अभियन्ता बाईकयानात् यानयन्त्रखण्डान् (engine parts) पृृथक्कुर्वन् आसीत्।
सहसैव एकः हृदयचिकित्सकः तस्य आपणे दृष्टः। सः चिकित्सकं स्वकौशल्यस्य विकत्थनहेतुना अब्रवीत्, "महोदय एतत् यन्त्रं दृश्यताम्। मया अस्य यन्त्रस्य हृदयम् उद्घाटितं, तस्मात् वाल्वाः (valves) उत्पाटिताः, वाल्वान् सुधार्य पुनः तत्तत्स्थाने योजिताः, येन अधुना यानयन्त्रं पूर्ववत् चलति। यादृक् चिकित्सां भवान् मनुुुषः अङ्गे करोति तादृक् सुधारम् अहं याने करोमि। एवं सत्यपि कथम् अहम् अत्यल्पं वेतनं लभे किन्तु भवान् महत् धनम् अर्जयति?"
वैद्यः समीपम् आगत्य स्मितहास्यपूर्वकं अभियन्तुः कर्णे आजपितवान्, "एतत् सर्वं सक्रिये चाल्यमाणे यन्त्रे कर्तुं पारयति भवान्?"
👌👏 *उत्तमम्!*
अनुवर्तते
.
.
.
.
.
.
.
.
एतच्छ्रुत्वा अभियन्ताः अपि स्मयमानः वैद्यस्य
समीपे आगत्य कर्णे आजपितवान्, "अहं निष्क्रियं, मृतं यन्त्रमपि पुनर्सञ्चालयितुं, तस्मिन् पुनरुज्जीवनं प्रस्थापयितुं शक्नोमि। भवतः तादृक् सामर्थ्यम् अस्ति?"
👌 *न केवलम् उत्तमम् अपि तु उत्कृष्टम्*_ 👍
—@चिन्मय फडके
No comments:
Post a Comment