Wednesday, June 20, 2018

Ramodantam in sanskrit

*॥ श्रीरामोदन्त: ॥*
_अथ  अयोध्याकाण्डः_ 

*मूल श्लोक:*

*भरतस्तु मृतं श्रुत्वा पितरं कैकयीगिरा ।*
*संस्कारादि चकारास्य यथाविधि सहानुजः ॥१४॥*

*पदविभाग:*

भरतः तु मृतं श्रुत्वा पितरं कैकयीगिरा  संस्कारादि चकार अस्य यथाविधि सहानुजः 

*अन्वय:*

भरतः तु पितरं कैकयीगिरा मृतं श्रुत्वा सहानुजः अस्य यथाविधि संस्कारादि चकार ।

*तात्पर्यम्*

भरत:  कैकय्या: वरकारणात् पिता दशरथ: मृत: इति आकर्ण्य तस्य अनुजेन सह यथाविधि
संस्कारादि चकार ।

*व्याकरणम्*
♦सन्धि:
भरत: + तु - विसर्गसकार:  चकार + अस्य - सवर्णदीर्घसन्धि:
 
 ♦ _समास:_
सहानुज: - अनुजेन सह वर्तते इति - सहपूर्वपदकर्मधारयसमास:

यथाविधि: - विधिम् अनतिक्रम्य - अव्ययीभावसमास:
कैकेय्या: गी: - षष्ठीतत्पुरुष:

तया - कैकयीगिरा - 

♦ _कृदन्ता:_
श्रुत्वा  - श्रु + क्त्वा प्रत्यय:

चकार - कृ धातु: लिट् लकार: प्रथमपुरुष: 
_चकार चक्रतु: चक्रु:_ 

🏹🏹🏹🏹🏹🏹

~ ✍ *शरवण:*

No comments:

Post a Comment