नमः सभायै।
प्रस्तावविषयः सभानिर्वहणम्।
न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मं। नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥
"यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः।
राज्ञ: प्रतिकृतो विद्वान् ब्राह्मणस्तां सभां विदुः"।। (मनुः)
समज्या,परिषत्,गोष्ठी,समितिः ,संसत्,आस्थानी आस्थानम्,सदः ,समाजः ,पर्षत्
यस्यां विद्वांसः,वेदशास्त्रसंपन्नमान्याः,धर्मविद्वांसः, गणमान्याः,धनीनः राजधुरंधराश्च सन्ति सा सभा। इति सभालक्षणम्। सभायां सत्याधारेण धर्मनिर्णयः न्यायनिर्धारणं च भवेदिति संकेतः। परं आमहाभारतकालतः सभायां वृद्धा: सर्वदा धर्ममेव वदन्तीति न प्रतिभाति। द्युतसभायामसत्येन कौरवा: विजितवन्तः। एतत् सत्यं भीष्मद्रोणादयः सर्वे ज्ञातवन्तः। परं तुष्णीं अतिष्ठन् सर्वे। द्रौपदीवस्त्रहरणं तु कलंकमेव सभायै। यस्यां सभायां धृतराष्ट्रभीष्मद्रोणादय: कुरुजेष्ठा: श्रेष्ठा आसन्। परं को$पि न किमपि अवदत्। नेतत् सभानिर्वहणम्।
अधुनापि वयं पश्यामः संसदि कथं सांसदा: गरिमा विहाय सत्तालोलुपतया निर्लज्जतया सभ्यता विस्मृत्य कलहं कुर्वन्तीति। अतीव लज्जास्पदवर्तनमेतत्।
सभानिर्वहनणार्थं सर्वविषयानां सम्यक् ज्ञानं तु प्रथमा योग्यता। परं निष्पक्षता, सत्यनिष्ठा ,स्वदेशनिष्ठा तथा च देवदेशधर्मसमाजकल्याणस्य महती स्पृहा अनिवार्या। स्वार्थेन अर्थेन वा लोभाविष्ट: मनुष्य योग्यनिर्णये अक्षमः।
पुरुषो$र्थस्य दासः। इति न्यायेन प्रायशः ज्ञानिजना अप्यन्यायं समर्थयन्ति। किन्तु नेतत् देशहिताय समाजहिताय वा।
चाणक्य इव निर्भयाः सत्यनिष्ठाः यदि सांसदाः स्युः तर्हि देशधर्मसमाजेन सह मनुजीवनस्य गरिमा अपि वर्धेत इत्यत्र न को$पि संशयः।
मानसी दीक्षित
No comments:
Post a Comment