Wednesday, June 27, 2018

Anubanda catushtayam -Sanskrit

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻

अनुबन्धचतुष्टयम्--

कस्यापि ग्रन्थस्य विषये एतेषामन्वेषणं कर्तव्यम्--

१) *विषयः* = कं विषयमधिकृत्य ग्रन्थः लिखितः?
२) *प्रयोजनम्* = ग्रन्थपठनेन कः हेतुः सिध्यति?
३) *अधिकारी* = ग्रन्थम् अध्येतुं कः योग्यः?
४) *सम्बन्धः* = गन्थविषयोर्मध्ये कीदृशः सम्बन्धः?

पाणिनीयशिक्षाविषये---

१) *सम्यग्वर्णशब्दोच्चारणं*  विषयः।
२) *उच्चारणज्ञानप्राप्तिः* प्रयोजनम्।
३) वेदाध्ययनानन्तरं वेदाङ्गानि अध्येतव्यानि अतः *अधीतवेदः* अधिकारी अथवा *साधूच्चारणजिज्ञासुः* अधिकारी।
४) उच्चारणशास्त्रं प्रतिपाद्यं प्रतिपादिका पाणिनीयशिक्षा।अतः उभयोर्मध्ये *प्रतिपाद्य-प्रतिपादकरूपः* सम्बन्धः।



*अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा।*
*शास्त्रानुपूर्वं तं विद्यात् यथोक्तं लोकवेदयो:।।१।।*

---------------------------------------------------
 
 *अन्वयः*---अथ अहं यथा पाणिनीयं मतं  तथा शिक्षां प्रवक्ष्यामि। तं (मतं) लोकवेदयोः यथा उक्तं तथा शास्त्रानुपूर्वं विद्यात्।

-----------------------------------------------------

*शब्दार्थाः*---

अथशब्दस्य नैके अर्थाः
*मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येषु अथ।*

अथशब्दः अत्र मङ्गलसूचकः आनन्तर्यसूचकः च। *शिष्यजिज्ञासायाः अनन्तरम्* इत्यर्थः। अथवा अधीतवेदः एव सम्यगुच्चारणशास्त्रे प्रभवति अतः *वेदाध्ययनानन्तरम्* इत्यर्थः।

शिक्षाविषयकं नाम उच्चारणशास्त्रविषयकं पाणिनेः मतं प्रवक्ष्यामि वदिष्यामि।

यथा लोके वेदे च उक्तं(यथा सामान्यव्यवहारभाषायाः  तथा च वैदिकभाषायाः उच्चारणादिविषये  पाणिनिना यथा उक्तम्  ) तथा शास्त्रानुपूर्वं (शास्त्रस्य क्रमम् आश्रित्य/शास्त्रानुसारं) वेदितव्यम्।

---------------------------------------------------

*फलितार्थः*--

*शिष्यजिज्ञासायाः/वेदाध्ययनात् अनन्तरं यथा लौकिकवैदिकशब्दानाम् उच्चारणविषये पाणिनिना स्वमतम् उक्तं तत् शास्त्रक्रमम् आश्रित्य वेदितव्यम्।*

--------------------------------------------------

*टिप्पण्यः*---

१) वर्णानां सङ्ख्या,प्रकाराः, उच्चारणस्थानानि,इत्यादिविषये शिष्यस्य मनसि यदा ज्ञातुम् इच्छा उद्भवति तदैव शिक्षाशास्त्रस्य अध्ययनाय सः प्रवृत्तः भवति। अतः जिज्ञासायाः अनन्तरमेव शास्त्रस्य अभ्यासः करणीयः।

२) अत्र पाणिनिः स्वयमेव पाणिनीयमतम् इति कथं ब्रवीति?
मम मतेन तु कश्चन पाणिनिच्छात्रः  पाणिनिना कृतात् उपदेशात् अनन्तरं टिप्पणीः लिखितवान् स्यात्। अतः सः वदति पाणिनीयमतम् इति।

३) पाणिनेः उच्चारणोपदेशः लौकिकवैदिकवर्णशब्दादिविषयकः उभयविधः।

४) सः उपदेशः कथं ज्ञातव्यः?
शास्त्रे यथा आनुपूर्वी/क्रमः उक्तः तेन क्रमेणैव। तथा हि --प्रथमं वर्णसङ्ख्या अनन्तरम् उच्चारणस्थानानि इत्यादिः।




*प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः।*
*पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम्।।२।।*

---------------------------------------------------


*अन्वयः*-- प्रसिद्धं तथापि अबुद्धिभिः अविज्ञातं शब्दार्थं वाचः उच्चारणे विधिं पुनः व्यक्तीकरिष्यामि।

------------------------------------------------------
*शब्दार्थाः*--

*अर्थः*= प्रयोजनम्।
*शब्दार्थः(वि.)*  = शब्दः अर्थः प्रयोजनं येषां सः(विधिः)।(बहुव्रीहिः)

----------------------------------------------------

*फलितार्थः*--

*शब्दः(शब्दोच्चारणम्) यस्य प्रयोजनम् अस्ति सः वाचः (भाषायाः ) उच्चारणसम्बन्धी विधिः यद्यपि प्रसिद्धः अस्ति (ज्ञातारः जानन्ति भाषायां कस्य शब्दस्य उच्चारणं कथं करणीयम्) तथापि बुद्धिहीनजनाः तत् नैव जानन्ति। अतः प्रसिद्धः अपि सः उच्चारणविधिः मया पुनः प्रकाश्यते।*


*त्रिषष्टिश्चतुष्षष्टिर्वा वर्णाः सम्भवतो मताः।*
*प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा।।३।।*

---------------------------------------------------

*अन्वयः*--
सम्भवतः प्राकृते संस्कृते अपि च त्रिषष्टिः चतुष्षष्टिः वा वर्णाः मताः। ते स्वयंभुवा स्वयं प्रोक्ताः।

--------------------------------------------------

*शब्दार्थाः*--
सम्भवतः = मूलतः।
प्राकृते = प्राकृतभाषासु, लोकभाषासु।
स्वयम्भूः = ब्रह्मदेवः।

----------------------------------------------------

*फलितार्थः*--

सम्भवतः मूलतः त्रिषष्टिः चतुःषष्टिः वा वर्णाः प्राकृतभाषायां तथा च संस्कृतभाषायामपि सन्ति। एते वर्णाः स्वयं ब्रह्मदेवेन प्रोक्ताः।

---------------------------------------------------

*टिप्पण्यः*--

*शम्भुमते* इति पाठः असमीचीनः इति भाति यतः- अ) माहेश्वरसूत्रेषु त्रिषष्टिः चतुःषष्टिः वा वर्णाः न परिगणिताः। आ) ईश्वरस्य अनेकेषु एकं *मतं* न भवितुम् अर्हति तस्य कथनं तु अन्तिमं स्यात्।  इ) ईश्वरः वर्णानां सङ्ख्याविषयेपि विकल्पः न दद्यात्।विकल्पः तु मनुष्यमनसः प्रवृत्तिः न ईश्वरस्य।

 तथैव *स्वयंभुवा प्रोक्ताः* इत्यत्रापि उपर्युक्ताः तिस्रः आशङ्काः।

प्रथमप्रश्नः *शम्भुमते* इत्येतस्य स्थाने *सम्भवतः* इति पाठं स्वीकृत्य निवार्यते।  

अथवा शम्भुमते इत्येव स्वीकृतं चेत् यद्यपि महेश्वरेण चतुर्दशसूत्रेषु ६३/६४ वर्णाः न दत्ताः तथापि तान् सूत्रान् आधारीकृत्य यत् पाणिनीयमतं प्रचलितं तस्मिन् ६३/६४ वर्णाः गणिताः एवं समाधातुं शक्नुमः।

स्वयम्भुवः प्रवचनविषये एवं स्यात्---

ब्रह्मदेवेन वर्णाः प्रोक्ताः तथापि तेन त्रिषष्टिः अथवा चतुःषष्टिः प्रोक्ताः तन्न स्मर्यते अस्माभिः। केचन वदन्ति त्रिषष्टिः केचन चतुःषष्टिः-- प्लुत लृकारस्य समावेशेन।

केनापि प्रकारेण समाधानं चिन्त्यते चेदपि ६३/६४ वा इति विकल्पः तु मनुष्यकृतः एव इति निश्चितम्।

अपरं च ---

पाणिनिकाले प्राकृतभाषाः नैवोद्भूताः आसन्। तासाम् उद्भवः तु पाणिनेः अनन्तरम् अभवत्। अतः पाणिनिपरम्परायाः कश्चन मनुष्यः प्राकृतोद्भवात् अनन्तरं पाणिनिमते उक्तानां ६३/६४ वा वर्णानामेव उपयोगः प्राकृते भवतीति दृष्ट्वा *प्राकृते संस्कृते चापि* एवम् उक्तवान् स्यात्। 
 
अथवा --

अवस्थिमहोदयस्य भाष्यानुसारं प्राकृते इति उल्लेखः वैदिकभाषाविषयकः यतः तत्र व्याकरणनियमानां नैव यथास्थितप्रवृत्तिः तस्याः भाषायाः प्राचीनत्वात् नैसर्गिककत्वात् च। 

No comments:

Post a Comment