🌻🌻🌻
*तदा द्रष्टुः स्वरूपेऽवस्थानम्।।1.3।।*
*पदच्छेदः*
तदा द्रष्टुः स्वरूपे अवस्थानम्।
*समासाः*
स्वस्य रूपं - स्वरूपे। तस्मिन - स्वरूपे। _षष्ठीतत्पुरुषः।_
*केषाञ्चन पदानामर्थः*
_द्रष्टुः_ - यः पश्यति सः द्रष्टा, तस्य।
_अवस्थानम्_ - स्थितिः। वासः।
*तात्पर्यम्*
यदा चित्तवृत्तिनिरोधः भवति तदा पुरुषः, द्रष्टा, स्वरूपे स्थितः भवति इति।
✏...श्रीनीतः।
🌻🌻🌻
No comments:
Post a Comment