Friday, May 25, 2018

Dhatu Pratyaya in Sanskrit

Courtesy:Sri.Dr.H.N.Bhat

​​धातुसंबन्धे प्रत्ययाः इत्यस्य अयमर्थो दत्तः काशिकायाम् —
काशिका

धात्वर्थे धातुशब्दः। धात्वर्थानां सम्बन्धो धातुसम्बन्धः विशेषणविशेष्यभावः।
तस्मिन् सति अयथाकालोक्ता अपि प्रत्ययाः साधवो भवन्ति। अग्निष्टोमयाज्यसय पुत्रो
जनिता। कृतः कटः श्वो भविता। भावि कृत्यम् आसीत्। अग्निष्टोमयाजी इति भूतकालः,
जनिता इति भविष्यत्कालः। तत्र भूतः कालः भविष्यत्कालेन अभिसम्बध्यमानः साधुर्भवति।

विशेषणं गुणत्वाद् विशेष्यकालम् अनुरुध्यते, तेन विपर्ययो न भवति।

​इति| विशेषणस्य गुणत्वात् विशेष्यकालमनुरुध्यते इति द्रष्टव्यम्|

वसन् ददर्श इति धात्वर्थयोः संबन्धः, विशेषणविशेष्यभावेन| वसन्निति विशेषेषणम्, विशेषेष्यं प्रधानक्रिया ददर्श इति|

​`वर्तमानसामीप्ये
वर्तमानवद्वे'त्यादिसूत्रे

"यत्र काले ये प्रत्यया उक्तास्ते धात्वर्थयोः सम्बन्धे
गम्ये ततोऽन्यमिन्नपि काले स्युरिति यावत्।" तथा च `वसन् ददर्शे' इत्यत्र लडादेशः
शतृप्रत्ययो भूतकाले इतिसिद्धं भवति।"

इति भूतकाले शतृप्रत्ययः विहितः, ददर्श इति भूते लिट् एव|

अत्र सूत्रे लडादेशः वर्तमाने विहितः शतृप्रत्ययः, वासक्रियासंबन्धेन ततोन्यस्मिन् काले साधुरिति बालमनोरमाकारः, प्रौढमनोरमाकारश्च|

​भवतां शिष्टं संशयं स्पष्टतरं लिख्यताम् |​

​भवता उन्नीतस्तु सन्देहः अन्यत्र टिप्पणे|​ तत्र ददर्श इति धातुः इति भूतकाले लिट् प्रत्ययान्तः इति विवक्षितं गृह्यताम्| ततश्च प्रश्नस्याशयस्तु स्पष्ट एव भवति| कथं भूतकालिकक्रियायाः धातोः वर्तमानकालेन शत्रन्तेन संबन्धः इत्येव प्रश्नः, इति साध्वेव निरूपितम् "धात्वर्थसंबन्धे प्रत्ययाः" इत्यनेन साध्यः भवति अन्वयः इति| तस्यैव शास्त्रीयं विवरणं मयापि काशिका-मनोरमायोराधारेण उपस्थापितं दृश्यताम्|

अपदं न प्रयुञ्जीत ; न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः — महाभाष्यम् – 'अनभिहिते' )–says Hari (2-194)

इति न्यायेन केवलस्य प्रकृतेः, केवलस्य प्रत्ययस्य वा प्रयोगायोग्यता स्पष्टैव|


No comments:

Post a Comment