Tuesday, May 1, 2018

Chatu sloki Bhagavatam - Sanskrit

॥ चतुःश्लोकीभागवतम् ॥    श्रीभगवानुवाच ।  ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।  सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ १॥    यावानहं यथाभावो यद्रूपगुणकर्मकः ।  तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ २॥    अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।  पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३॥    ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।  तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ४॥    यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।  प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ५॥    एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः ।  अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ६॥    एतन्मतं समातिष्ठ परमेण समाधिना ।  भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ७॥    ॥ इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्र्यां  संहितायां वैयसिक्यां द्वितीयस्कन्धे भगवद्ब्रह्मसंवादे  चतुःश्लोकीभागवतं समाप्तम् ॥

No comments:

Post a Comment