Thursday, May 31, 2018

Akshaya - Sanskrit essay

*प्रस्तावविषयः- अक्षयत्वम्*

मम किञ्चित् यथामति प्रयासः - 

न क्षयतीत्यक्षय:। क्षयति नाम विनाशयति।
अक्षयत्वं नाम कश्चन गुणः। यथा - Immortality , that which doesn't decrease , diminish , end etc. इति भाषान्तरे कथयति ।देवेष्वेव अक्षयत्वम् वर्तते। तेषां आयुष: न क्षीयन्ते कदापि। मर्त्यलोके एतस्य किं वैशिष्ट्यं स्यात् अपरं च कथम् वा सार्थख्यम् सम्पादनीयमिति अत्र किञ्चित् प्रस्तौमि ।

लोके कस्य वा क्षय: न स्यात् इति पृच्छति चेत् उत्तरं भवति -  मानवै: निर्मितानि सर्वाणि वस्तूनि क्षीयन्ते एव।  अपौरुषेयं अलौकिकं च यदस्ति तत्रैव अक्षयत्वं विद्यते।  

ऐहिकलोके जीविते सति कथं वा वयं अक्षयत्वं प्राप्नुम: - इति । शास्त्रे चत्वारः पुरुषार्था: वर्णिताः । ते धर्म - अर्थ - काम - मोक्षश्च। सर्वे मानवाः पुरुषार्थं सम्पादयितुं सदैव प्रयतन्ते। 

पुण्यकर्मसु धर्म: लभ्यते। धर्मेण अर्थलाभ: । अर्थद्वारा कामानामभिलषितानां पूर्ति: भवेत्।  तदनन्तरं मनसि वैराग्यम् स्फुरति । एवं च आत्मज्ञानं भवेत्। तद्द्वारा मोक्ष: सिद्धिर्भवति। अतः धर्ममेव मूलं । धर्मस्य अंश: सर्वत्रापि भवितव्यं । वस्तुतः धर्म एव आधारभूतः सर्वेभ्यः यथा आदिशेष: जगत्यै।  

किमर्थं अहमिदानीम् धर्मस्य प्रामुख्यम् अस्मिन् सन्दर्भे कथयामि इति चेत् धर्माचरणेन एव अक्षयत्वम् सिध्यति । अक्षयत्वम् नाम कीर्तिरपि वक्तुं शक्यते किल।अद्यापि वयं श्रीरामचन्द्रम् भजाम: । कारणं किमित्युक्ते तस्य धर्माचरणम्। रामायणम् पठित्वा वयं संकल्पम् कुर्म: - *रामवत् भवितव्यं व्यवहर्तव्यं च न रावणवत्* । तेन मार्गेण धर्म: सम्पद्यते । यद्यपि तै: तपस्विभि: निर्मितानां प्रासादानाम् नाशा: अभवन् किंतु तेषां नाम न विस्मृतम् । अद्यत्वे अपि चिरकालिक: अक्षय: च । तत्र कारणम् धर्माचरणमेव।


✍️ *कौशिकः*🐣

No comments:

Post a Comment