Thursday, April 5, 2018

Vibhishana aaranagati

Courtesy: Sri. Ramesh shukla 
।।श्रीमते रामानुजाय नमः।।

वाल्मीकिरामायणे विभीषणशरणागति:
-------------------------------------------------

सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम॥

        –अध्यात्मरामायण , 6/18/33

अत्र शरणागतं विभीषणं प्रति स्व­स्वभावं प्रकटयन् रामभद्रः प्राह यत् प्रपन्नाय जनाय तवास्मीति याचमानायाहं सर्व­प्राणिभ्योऽभयं ददामि। आत्मनेपदीयः याच् धातुः (टुयाचृँ याञ्चायाम् धा॰पा॰863)।तस्मात् याचतेइति हि प्रयोगः।अस्माच्छानचि चतुर्थ्यैक­वचने 
याचमानाय इति हि पाणिनीयम्। 

किन्तु याचत इति याचः।याच इवाऽचरतीति याचति।याचतीति याचन्। तस्मै याचते इत्याचारक्विबन्ताच्छतृप्रत्यये याचते। याचकवदाचरण­कारिणेऽप्यभयं ददामि तदा याचमानाय किं दद्यामिति स्वकारुण्यात्स्वयं ध्वनयितुं स्वयं निखिल­निगमार्णवो राघवो याचते इति प्रायुङ्क्त। अथवोभयपदी धातुरयम्। तथा च भगवान्पाणिनिः टुयाचृँ याच्ञायाम् (धा॰पा॰ 863)। स्वरितेदयम्। एष कर्त्रभिप्राये क्रियाफल आत्मनेपदी।अन्याभिप्राये क्रियाफले परस्मैपदी।भगवतोऽभिप्रायो यत् – यः स्वार्थं त्यक्त्वा प्रेमभक्तये मां प्रपन्नः तवास्मि इति वदन् मामभयं ब्रह्मैव याचति तस्मा अहं सर्वभूतेभ्योऽभयं ददामि। अतोऽत्र परस्मैपदं ततः शतृप्रत्ययः। तस्य चतुर्थ्येकवचनरूपं याचते। याचतीति याचन् तस्मै याचते।

             –जय श्रीमन्नारायण।

No comments:

Post a Comment