Wednesday, April 18, 2018

Ramodantam -Explanation of slokas in Sanskrit

 *श्रीकान्तो मातुलो यस्य​ जननी सर्वमंगला।*
*जनकः शंकरो देवः तम् वन्दे कुंजराननम्॥ *

*यो दण्डकारण्यनिशाचरेन्द्रान्*
*कोदण्डलीलाविषयीचकार ।*
*वेतण्डशुण्डायितबाहुदण्ड: कोदण्डप‍ाणि: कुलदैवतं न: ॥* 

अद्यत: श्रीरामोदन्तम् (श्रीराम चरितम्) श्लोकानाम् अनवयम् प्रतिदिनं प्रषयिष्यामि ।

धन्यवाद:
शरवण:
 *श्रीरामोदन्दम्*
_अथ बालकाण्ड:_

*मूल श्लोक:*
*श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् ।*
*श्रीरामोदन्तमाख्यास्ये श्री वाल्मीकि प्रकीर्तितम् ॥ १॥*


*पदविभाग:*

श्रीपतिं प्रणिपत्य अहं श्रीवत्साङ्कितवक्षसम् 
श्रीरामोदन्तम् आख्यास्ये श्री वाल्मीकि प्रकीर्तितम् 

*अन्वय:*
 अहं श्रीवत्स अङ्कित वक्षसम्    श्रीपतिं प्रणिपत्य श्री वाल्मीकि प्रकीर्तितम् 
श्रीरामोदन्तम् आख्यास्ये ।

*तात्पर्यम्*

अहं श्रीवत्स अङ्कित वक्षसम्    श्रीपतिं विष्णुं नमस्कृत्य श्री वाल्मीकिना पूर्वं उक्तं श्रीरामोदन्तं नाम कथां वदिष्यामि ।

*व्याकरणम्*
♦सन्धि:
श्रीवत्स + अङ्कित - सवर्णदीर्घसन्धि:

♦समास:
श्रीपति - श्रिय: पति : षष्ठीतत्पुरुष:


आख्यास्ये - लृट् लकार: उपु. एक
 आत्मनेपदि धातु: 
_आख्यास्ये - आख्यास्यावहे - आख्यास्यामहे_

🏹🏹🏹🏹🏹🏹🏹

- ✍ *शरवण:*

More at:

No comments:

Post a Comment