Monday, April 23, 2018

Narayana shataka- Sanskrit

हरेस्त्वात्मा हरश्चैव हरस्यात्मा हरिस्तथा |

इत्थं यः कल्पयेत्तस्मै प्रसन्नौ हरिशंकरौ || ३९ ||

नारायण इदं सर्वं जगत्सदसदात्मकम् |

नारायणस्य चैकांशे स्थितं सर्वमिदं जगत् || ४० ||

मनश्च करणं प्राणो नारायणात्प्रजायते |

खं वायुर्ज्योतिरापश्च पृथिवी विश्वधारिणी || ४१ ||

ब्रह्मा प्रजायते तस्मान्नारायणाच्चतुर्मुखः |

रुद्रः पंचाननश्चैव नारायणादजायत || ४२ ||

इंद्रः प्रजापतिश्चैव द्वादशादित्यनामकाः |

रुद्रा वसव इत्येते सर्वच्छंदांस्यपि स्मृताः || ४३ ||

समुत्पद्यन्त इत्याहुः प्रवर्तन्ते तथैव च |

प्रलीयंते च तस्मिन्वै नारायणे परात्मनि || ४४ ||

(इति ऋग्वेदशिरोसारः)

*[नारायणशतक]*

No comments:

Post a Comment