Wednesday, April 4, 2018

Dhig - which vibhakti? - An analysis in sanskrit




Courtesy: Sri.Ramesh Prasad Shukla

धिग्-योगे द्वितीया
----------------------

द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्यन्ते, तैरेव अत्र व्यवहारः। कर्मणि कारके या सङ्ख्या तत्र द्वितीया विभक्तिर्भवति। कटं करोति। ग्रामं गच्छति। उभसर्वतसोः कार्या धिगुपर्यादिषु क्रिषु। द्वितीया आम्रेडितान्तेषु ततो ऽन्यत्र अपि दृश्यते। उभयतो ग्रामम्। सर्वतो ग्रामम्। धिग् देवदत्तम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधो ऽधो ग्रामम्। अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते। अभितो ग्रामम्। परितो ग्रामम्। समया ग्रामम्। निकाषा ग्रामम्। हा देवदत्तम्। बुभुक्षितं न प्रति भाति किञ्चित्।

कर्मणि द्वितीया (२-३-२) इति सूत्रम् । तत्र भाष्यकारः –

उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥

इति श्लोकरूपं वार्त्तिकम् (केचन भाष्यकारस्य इयं इष्टिः इति । भाष्यकारस्य वचनम् इष्टिः इति उच्यते ।) अवतार्य "धिग्-योगे - धिग् जाल्मं,धिग् वृषलम्" इत्येव उदाहरति । अतः धिग्-योगे द्वितीया विभक्तिः एव इति निश्चितम् । परन्तु सम्बोधने प्रथमा एव धिग्-योगे अपि । यथा - धिङ् मूर्ख (धिक् मूर्ख इति यदि सन्धिः न क्रियते) । धिङ् मूढ । किं कारणम्?सम्बोधनप्रथमायाः अन्वयः क्रियापदेन एव भवति न तु धिक्-पदेन । यथा - मूर्खसम्बोधनरूपनिषिद्धारणस्य निन्द्यता इति क्रियापदेन अन्वये बोधः जायते । एवं च अत्र धिक्-पदेन "हे मूर्ख​!" इत्यस्य अन्वयः नास्ति । तस्मात् सम्बोधनप्रथमा एव भवति । यत्र दिक्-पदेन अन्वयः तत्र एव द्वितीया । यत्र क्रियापदेन अन्वयः तत्र न द्वितीया । तस्मात् सम्बोधनप्रथमा एव भवति ॥

परन्तु कुत्रचित् "धिक्-पदेन योगे प्रथमा विभक्तिः अपि दृश्यते । यथा पञ्चतन्त्रे - धिग् इयं दरिद्रता" इति प्रयोगः । अत्र सम्बोधनं नास्ति, अतः द्वितीया एव भवेत् । परन्तु प्रथमा दृश्यते । एतादृशप्रयोगाः कथञ्चित् समर्थनीया: - "अन्यत्रापि दृश्यते" इति उक्त्या ॥

एवं च धिक्-पदेन योगे द्वितीया, धिक्-पदस्य क्रियापदेन अन्वये सम्बोधनप्रथमा, क्वचित् प्रथमा अपि इति निर्णयः ॥

             –जय श्रीमन्नारायण।