Courtesy:Smt.K.Varalakshmi
एकदा चाणक्यमुपेत्य कश्चिदवोचत् " तव मित्रमधिकृत्य तत्रैवं श्रुतम्..तत्ते श्रावयिष्यामि... . "। चाणक्य उवाच " तिष्ठ क्षणम्, तत: प्राक् ते त्रितितउपरीक्षां यच्छामि।".... "त्रितितउपरीक्षाम्!!..? "। "एवम्.." चाणक्य उवाच " मम मित्रमधिकृत्य त्वया किं श्रुतमिति कथनात् पूर्वं तितउना त्रिवारं भवद्विवक्षितस्य शोधनं युक्तं भवेत्... तस्मादियं त्रितितउपरीक्षा... " । "सत्येन तितउना प्रथमं शोधनम् । मन्मित्रविषये भवता श्रुतं सत्यमेवेति निश्चयोस्ति वा? ".... "नास्ति निश्चय: " स उक्तवान् । " अहमश्रौषं, तावदेव" । "अर्थात्, भवान् यदं वक्तुमिच्छति तत् सत्यं वा असत्यं वेति नास्ति तव निश्चय इति".. "आस्ताम्, द्वितीयेन शिवेन तितउना पुनीमहे, किं मन्मित्रमधिकृत्य यच्छ्रुतं सत् शिवं वा अशिवं वा? " " न न, अशिवमेव तत्"... स ऊचे । " एवन्तर्हि, मम मित्रमधिकृत्य भवान् अशिवमेव किञ्चिद् वक्तुमिच्छति, तच्च सत्यं वा असत्यं वेति नास्ति च ते निश्चय: " । "इतोपि तृतीयं तितउ विद्यते, फलम् । किं भवता मन्मित्रविषये यद् विवक्षितं तेन किमपि मे प्रयोजनमस्ति? " "नैव" " तर्हि साधु" चाणक्य: परीक्षामुपसंहरन् उवाच " यदि भवतो विवक्षितं न सत्यं न शिवं नापि प्रयोजनवत् तर्हि किमर्थं वै तन्मां कथयसि?!! "... सत्येन पूतं च शिवेन पूतं प्रयोजनेनापि यदीह पूतम् । तदेव वाच्यं तदु हैव नूनं श्रोतव्यमेषा चणकात्मजोक्ति:।।
No comments:
Post a Comment